________________ 112 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / तत्र कपिशीर्ष वर्णयति-तस्मिन्निति तस्मिन् सा कपिशीर्षमण्डली, नानारत्नमयी व्यराजत / देवानां स्वसमीक्षणे ययाऽक्लेशं दर्पणमण्डलायितम् // 35 // तस्मिन् शाले सा प्रस्तुता कपिशीर्षाणां मण्डली नानारत्नमयी नैकविधमणिरत्ननिर्मिता सती व्यराजत शुशुभे / सा केत्याह-यया कपिशीर्षमण्डल्या देवानां-स्वसमीक्षणे स्वरूपावलोकनेऽक्लेशमनायासमेव दर्पणमण्डलायितम् दर्पणमण्डलवदाचरितम् // 35 // अथ तत्र द्वितीयप्राकार निर्माणमाह-ज्योतिष्का इति ज्योतिष्का वरणं च तद्वहिश्चक्रुः स्वर्णमयं द्वितीयकम् / तीर्थाधीश्वरपर्युपासनारागैरेव हृदां विनिर्मितम् // 36 // ज्योतिष्का देवाः तस्मात् शालाद् बहिः बहिःप्रदेशे मध्यभागे द्वितीयकमपरम् स्वर्णमयं हृदां स्वमनसाम् तीर्थाधीश्वरस्य श्रीशान्तिजिनस्य पर्युपासनासु सेवासु ये रागाः प्रेमाणः तैरेव विनिर्मितमिव वरणं प्राकारम् "प्राकारो वरणः शालः' इत्यमरः चक्रुश्च // 36 // अथ तत्र कपिशीर्षकं वर्णयति--तत्रेति तत्राऽभात् कपिशीर्षसन्ततिर्भास्वद्रत्नमयी तमो नती / सर्वद्वीपदिनेशमण्डली, हतु यद् मिलिताऽपि नाऽशकत् // 37 // तत्र प्राकारे भास्वदत्नमयी कान्तिमद्रत्ननिर्मिता अत एव तमोऽन्धकारं नती नाशयन्ती कपिशीर्षसन्ततिः कपिशीर्षकसमूहः अभात् राजते स्म, कीदृशं तमो नतीत्याह यत्तमः हतु नाशयितुम् , सर्वेषां द्वीपानां दिनेशानां सूर्याणां मण्डली समूहः मिलिता एकत्रिताऽपि सती नाशकन्नसमर्थाः सूर्यो हि बाह्यं तमो हरति, इयं तु बाह्यमान्तरं चेति व्यतिरेको ध्वन्यते // 37 // अथ बहिर्वतितृतीयप्राकारविधानमाह-आतेन इति __ आतेने भवनाधिपैर्वहि-र्वपो रूप्यमयस्तृतीयकः / शक्ति प्राप्तुमिनात् क्षमाधृतो, शेषः कुण्डलनामिवाऽऽगतः // 38 // . भवनाधिपैः भवनपतिदेवैः बहिः वप्रः तृतीयकः रूप्यमयः आतेने, निर्मितः, यः वप्रः शेषः शेषनागः क्षमाधृतौ पृथ्वीधारणार्थम् , शेषः पृथ्वी स्वमस्तके वहतीति पौराणिकः / इनात्स्वामिनः शान्तिजिनात् शक्ति सामर्थ्य प्राप्तुम् कुण्डलनां कुण्डलाकारत्वमागतः प्राप्त इव स्थितः लक्ष्यते स्मेति शेषः / उत्प्रेक्षा // 38 //