________________ www vwwwww आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्रापि कपिशीर्ष वर्णयति-विभेजे इति विभेजे कपिशीर्षसंततिस्तस्मिन् हेममयी महाद्युतिः / ताराणामुपवेशनाय या, पीठश्रेणिरिवातिभास्वरा // 39 // तस्मिन् तृतीयप्राकारे हेममयी स्वर्णनिर्मिता अत एव महाद्युतिः अतिभास्वरा कपिशीर्षसंहतिः विशेषेण भेजे शुशुभे या कपिशीर्षसंहतिः ताराणाम् , नक्षत्राणाम् , अत्युच्चत्वादिति भावः / उपवेशनाय अतिभास्वरा, पीठश्रेणिः आसन् पंक्तिरिव स्थिता विभेजे स्थिता लक्ष्यते स्मेति शेषः // 39 // अथ तत्र द्वारवर्णनमाह-द्वाराणीति द्वाराणि प्रतिवप्रमावभुश्चत्वार्यकसमानि मानतः। अत्र द्वादशपर्षदः सुखं, वेश्यन्तीति कृताऽऽकृतेरिव // 40 // प्रतिवनं प्रतिप्राकारं मानतः प्रमाणतः एकसमानि तुल्यानि, तुल्यप्रमाणानीत्यर्थः / चत्वारि चतुःसङ्खयकानि द्वाराणि अत्र चतुर्झरमध्ये द्वादश पर्षदः द्वादशप्रकाराः सुखं वेक्ष्यन्ति सुखं यथा स्यातथा–वेश्यन्तीति बुद्धया कृता आकृतिः स्वरूपस्थितिर्येन तस्मादिव सभ्यप्रवेशमपेक्ष्य कृतान्मानादित्यर्थः आबभुः शोभन्ते स्म ! तादृशानि मानतो द्वाराणि यथा सभ्यप्रवेशं सम्बाधो न स्यादिति यावत् // 40 // . अथ तोरणध्वजौ वर्णयति-ये लक्षेष्विति ये लक्षेष्वथवाऽपि कोटिषु, द्रव्येष्वेव भवन्ति हम्यिणाम / तैरुद्धासितमूर्तयो ध्वजै, रेजुस्तेषु विचित्रतोरणाः // 41 // * ये तोरणाः ध्वजाः हयिणाम् धनिकानाम् लक्षेषु लक्षसङ्ख्यकेषु अथवाऽपि कोटिषु तावत्सु द्रव्येषु व्ययितेषु सत्स्वेव भवन्ति, न त्वन्यथा, तैस्तादृशैः ध्वजैः तेषु प्राकारेषु उद्घासितमूर्तयः उत्फुल्लस्वरूपाः विचित्राः नानाविधास्तोरणाः रेजुः // 42 // अथ तत्र धूपघटीस्थापनमाह-स्फूर्जदिति स्फूर्जडूमसमूहदम्भतो, मेघाडम्बरमम्बराङ्गणे / तन्वाना नवधूपसंभृता गर्गों विवभुस्तदग्रतः // 42 // तेषां चतुर्णा द्वाराणां अग्रतोऽप्रभागे नवैविलक्षणैः धूपैः कृष्णागरुतुरुष्कादिधूपैः संभृताः पूर्णाः गर्गर्यः धूपघटयः स्फूर्जतां प्रसरतां धूमसमूहानां धूपधूमराशीनां दम्भतो व्याजतः अम्बरमाकाशं तद्रूपेऽङ्गणे मेघाडम्बरम् वर्णसाम्याद् मेघानुकारं तन्वानाः कुर्वाणा विबभुः विरेजुः // 42 //