________________ श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः। अथ तत्र वापी निर्माणमाह-वाप्य इति वाप्यः स्वर्णसरोरूहाः प्रतिद्वारं निर्ममिरेऽमरैस्ततः / स्नायं स्नायममी जना जिनं पौरत्र महेयुरित्यथ // 43 // ___ अथानन्तरम् , अमरैः देवैः प्रतिद्वारं सर्वेषु द्वारेषु स्वर्णसरोरुहाः स्वादूदकाञ्चिता स्वर्णकमलवत्यः वाप्यः दीर्घिकाः “वापी तु दीर्घिके"त्यमरः / अमी जनाः अत्र वाप्यां स्नाय स्नायं स्नात्वा स्नात्वा पद्मः कमलैः कृत्वा जिनं शान्तिजिनं महेयुः पूजयेयुरिति बुद्ध्या निर्ममिरे निर्मिताः // 43 // अथो देवच्छन्दनिर्माणमाह-देवेति। देवच्छन्दममन्दभक्तयो, विश्रामाय सुरा जिनेशितुः / ऐशान्यां मणिभिर्वितेनिरे, मध्येऽष्टापदवप्रमुत्तमैः // 44 // अमन्दभक्तयः अनुपमभक्तिमन्तः सुराः जिनेशितुः शान्तिजिनस्य विश्रामाय. द्वितीयप्रहरे विश्रामहेतोः ऐशान्यां दिशि उत्तमैः मणिभिः देवच्छन्दं मध्येऽष्टापदवप्रं जात्यस्वर्णमयद्वितीयपप्रस्यान्तरे वितेनिरे निर्मितवन्तः // 44 // अथ द्वारेषु प्रतीहारविभागमाह प्रागिति माक्रमाकारसहस्रनेत्र-दिग्द्वारे स्वर्णविभासिनौ / द्वौ वैमानिकनाकिनौ प्रती-हारत्वं दधतुर्महौजसौ // 45 // प्राचः प्रथमस्य प्राकारस्य वप्रस्य सहस्रनेत्रस्येन्द्रस्य या दिक्तस्याः पूर्वदिश इत्यर्थः, द्वारे स्वर्णस्य विभा इव-विभासिनौ कान्तिमन्तौ स्वर्णवर्णी महौजसौ महाबलौ द्वौ वैमानिकनाकिनौ वैमानिकदेवौ प्रतीहारत्वं द्वारपालत्वं दधतुः स्वीचक्रतुः द्वौ वैमानिकदेवौ पूर्वद्वारपालाविश्यर्थः // 45 // अथ प्रथमवर्ग दक्षिणादिग्द्वारपालमाह शुक्लेति-- शुक्लध्यानविवर्णिकामिव, प्रादुष्कृत्य निदर्शयत्तमौ / मुक्तौ व्यन्तरनिर्जरावपाग्द्वारे द्वारपतित्वमूहतुः // 46 // शुक्लध्यानस्य विवर्णिकां प्रतिकृतिमिव प्रादुःकृत्य प्रादुर्भाव्य मुक्तौ पृथक्कृतौ–'मुक्तौ स्थापितौ वर्णसाम्यात्तां निदर्शयत्तमौ दर्शयन्तौ' निदर्शयत्तमौ दृष्टान्तीकुर्वाणौ व्यन्तरनिर्जरौ व्यन्तरदेवौ अपाग्दारे प्रथमवप्रस्य दक्षिणाद्वारे द्वारपतित्वं द्वारपालल्वमूहतुः दधतुः // 46 // अथाधवप्रप्रत्यग्द्वारे द्वारपालमाह-- ज्येतिष्काविति - ज्योतिष्कावतिकिंशुकाती, द्वाःस्थत्वं कलयाम्बभूवतुः। प्रत्यग्द्वारि सुरौ प्रवेक्ष्यता, लोकानामिव रागधित्सया // 47 // . शुक्लेति-- .