________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / - ज्योतिष्कौ सुरौ अतिकिंशुकद्युती किंशुकद्युत्यतिशायिनी, अत एव प्रवेक्ष्यतां प्रवेशं प्राप्स्यतां लोकानां रागधित्सया रञ्जितुमिच्छयेव स्थितौ प्रत्यग्द्वारे पश्चिमद्वारे द्वाःस्थत्वं द्वारपालत्वं कलयाम्बभूवतुः दधतुः // 47 // अथोत्तरद्वारपालमाह-द्वार इति द्वारे चोत्तरदिग्व्यवस्थितौ, नीलाङ्गौ भुवनेश्वरौ सुरौ / वेत्रित्वं बिभराम्बभवतुः, को वा युक्तमुपेक्षते कृती? // 48 // नीलाङ्गी श्यामवर्णी भुवनेश्वरौ भुवनपती सुरौ उत्तरस्यां दिशि व्यवस्थितिः स्थितिर्यस्य तस्मिन् उत्तरदिक्स्थे द्वारे वेत्रित्वं वेत्रधारित्वम् द्वारपालत्वमित्यर्थः / द्वारपाला हि वेत्रधारिणो भवन्तीति भावः / बिभराम्बभूवतुः दधतुः / ननु किमिति तौ देवावपि सन्तौ द्वारपालत्वं निकृष्टं दधतुरिति चेन्न, तत्काले तस्यैवोचितत्वादित्याह-को वा कृती अवसरज्ञः युक्तं कालप्राप्तमुपेक्षते त्यजति ? न कोऽपीत्यर्थः / अन्यथौचित्यहानिरिति भावः // 48 // अथ सुवर्णवप्रद्वारपालमाह-रैवप्रस्येति रैवमस्य ततश्चतुर्ध्वपि, द्वारेषु प्रथमक्रमेण च / देव्योऽस्थुर्विजया जयाऽजिता तुर्या श्रीविजयाऽपराजिता // 49 // ततः प्रथमवप्रानन्तरम्-रैवप्रस्य स्वर्णप्राकारस्य द्वितीयस्य चतुलपि द्वारेषु प्रथमक्रमेण विजया प्रथमे द्वारे, जया द्वित्तीयद्वारे, अजिता तृतीयद्वारे-अपराजिता अन्यैरनभिभवनीया तुर्या चतुर्थी श्रीविजया चेत्येता देव्यः अस्थुः द्वारपालत्वेन स्थिता बभूवुः // 49 // . अथ तासामस्त्रद्युतिरप्याह पता इति एताः पाशसणी करद्वयेऽन्यस्मिन्निर्भयमुद्गरौ तथा / बिभ्राणास्तुहिनांशुपद्मरैफुल्लैन्दीवरपीवरत्विषः // 50 // विजया प्रभृतयो देव्यः-करद्वये पाशसृणी पाशं सृणिमङ्कुशं ते द्वे-"-अङ्कुशोऽस्त्री सृणिः स्त्रियामि' त्यमरः / तथा अन्यस्मिन् अपरे करद्वये निर्भयमुद्गरैश्च-अभयाख्यमुद्रां मुद्गरश्च" बिभ्राणाः धारयन्त्यः क्रमशः तुहिनांशुश्चन्द्रः पद्मम् रा सुवर्णम् फुल्लमिन्दीवरच नीलकमलं तद्वत्पीवरा गाढा त्विट् देहच्छविर्यासां इदृश्यः आसन्निति शेषः // 50 // अथ तृतीयरूप्यप्राकारद्वारपालमाह द्वारेष्विति द्वारेषु स्थितवांस्तृतीयकमाकारस्य चतुर्पु तुम्बुरुः / खट्वाङ्गीनरमुण्डमालितः कोटीरोरुजटाविभूषितः // 51 // (युग्मम्) ___ तृतीयकबाह्यवर्तिनः प्राकारस्य चतुर्पु द्वारेषु तुम्बरुः खट्वाङ्गीनराणां मुण्डानां शिरसां माला सञ्जाताऽस्येति तादृशः नरमुण्डमालायुक्तः कपालीसंज्ञः कोटी रेण-मुकुटेन गुरुभिर्महतीभिर्जटाभिश्च विभूषितः जटामुकुटधारीत्याख्यो देवविशेषः स्थितवान् // 51 //