SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 116 शान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / अथ तत्र चैत्यतरुनिर्माणमाह प्राकारेति प्राकारप्रथमस्य मध्यतोऽकार्युश्चैत्यतरं वनामराः / विंशत्यूनधनुर्महाव्रतसंख्याख्यातशतोच्छुयं पृथुम् // 52 // प्राकारेषु प्रथमस्य रत्नवप्रस्य मध्यतः मध्ये वनामराः व्यन्तरदेवाः पृथुम् विस्तारवन्तम् विंशतेः न्यूनानां धनुषाम् महाव्रतस्य सङ्ख्यया पञ्चसङ्ख्यया ख्यातं सहितं यच्छतं तावानुच्छ्य औन्नत्यं यस्य स तादृशं अशीत्यधिकचतुःशतधनुःप्रमाणोच्छ्रयं चैत्यतरुम् चैत्यवृक्षमकार्षुः रचयामासुः // 52 // अथ तत्र पीठविधानमाह चैत्येति चैत्यद्रोरध एव पीठकं नानारत्नमयं च चक्रिरे / गीर्वाणाधिपकार्मुकोच्चयं संगृह्येव च नैकवर्णभम् // 53 // चैत्यद्रोः चैत्यवृक्षस्य अधः-मूले एव गीर्वाणाधिपानामिन्द्राणां कार्मुकोच्चयं चापौन्नत्यम् सङ्गृह्य इव च नैकवर्णभं नानावर्णभं चित्रवर्णम् ननारत्नमयञ्च पीठकमासनं च चक्रिरे // 53 // अथ तत्र च्छन्दकनिर्माणमाह तेनुरिति तेनुश्च्छन्दकमा वनामरास्तस्योपर्यमलमणिवजैः / त्रैलोक्याक्षिषडंहिनीरजच्छायं कान्तिनिरस्तभास्करम् // 54 // वनामराः व्यन्तरदेवाः तस्य पीठस्योपरि अमलैः उज्वलैः मणिवजैः मणिसमूहैः कृत्वा कान्त्या निरस्तः पराजितः भास्करो येन तादृशम् त्रैलोक्यस्याणां नेत्राणामेव षडंहीणां भ्रमराणां कृते नीरजच्छायं कमलतुल्यम् लोकलोचनप्रियम् छन्दकमातेनुः रचयामासुः, अत्र आ इत्युपसर्गः व्यवधानेन परश्च प्रयुक्त इति च्युतसंस्कारता उपसर्गाणामव्यवधानेन धातोः प्रागेव प्रयोगात् // 54 // अथ तत्र सिंहासनविधानमाह तस्येति तस्यान्तर्मणिभिर्व्यधुः सुरा रत्नैः प्राङ्मुखसिंह विष्टरम् / श्रीवत्साङ्कितविग्रहेव सा भूमिर्येन बभौ विभाविता // 55 // तस्य च्छन्दकस्यान्तर्मध्ये सुराः मणिभिः रत्नैश्च प्रामुखं पूर्वाभिमुखं सिंहविष्टरं सिंहासनं व्यधुः रचयामासुः येन सिंहासनेन विभाविता प्रभाववती कृता सा तत्रत्या भूमिः श्रीवत्सेन तदाख्यरत्नेन अङ्कितो मुद्रितो विग्रहः कायो यस्याः सा तादृशी लक्ष्मीरिव बभौ शुशुभे // उपमा // 55 // अथ पादपीठनिर्माणमाह तस्येति तस्याधः पदपीठमद्भुतैर्माणिक्यैर्विरराज निर्मितम् / श्रीसिंहासनराजनायकस्याऽग्रे यद् युवराजतां दधौ // 56 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy