________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबाधिनीयुतम् 117 - तस्य सिंहासनस्य अग्रे अद्भुतैरलौकिकैः माणिक्यैः निर्मितम् पदपीठं-पादपीठं विरराज, यत्पदपीठम्-श्रीसिंहासनरूपस्य राजनायकस्य, यद्वा श्रीसिंहासनराजस्य सिंहासनश्रेष्ठस्य नायकस्याधिपतिरूपस्याग्रे युवराजतां दधौ युवराजवद्भाति स्म / रूपकालङ्कारः // 56 // अथ तत्र छत्रं वर्णयति त्रैलोक्येति त्रैलोक्यप्रभुतामिव प्रभोदृष्ट्वाऽनन्तरमेव बोधयत् / तत्राऽऽपूर्णसुधांशुमण्डलं छत्राणां त्रितयं व्यभासत // 57 // तत्र सिंहासनोपरि, अनन्तरम् दीक्षाग्रहणात्यागेव दृष्ट्वा चक्रवर्तितया त्रिलोकेश्वरत्वं दृष्ट्वा प्रभोः शान्तिजिनस्य त्रैलोक्यप्रभुताम् बोधयद् ज्ञापयदिव आपूर्ण सम्पूर्णं यत् सुधांशुमण्डलं चन्द्रमण्डलं नद्रूपम् छत्राणां त्रितयं छत्रत्रयं व्यभासत शुशुभे // 57 // अथ तत्र चामरं वर्णयति रेजात इति रेजाते सुतरां प्रकीर्णके, हस्तस्थे वटवासिनोः श्रिते / साधुश्रावकवर्गयोध्रुवं, धर्मो तन्मिपतः पुरास्थितौ // 58 // वटवासिनोः यक्षयोः हस्तस्थे सिते धवले प्रकीर्णके चामरे सुतरामतिशयेन रेजाते / श्रिते इति पाठस्तु चिन्त्यः, अन्वयालाभादिति बोध्यम् / तयोः प्रकीर्णकयोर्मिषतः व्याजात् साधुश्रावकवर्गयोः पुरास्थितावने स्थितौ धौ ध्रुवं धर्माविव / अत्र तन्मिषत इत्यपह्नत्यनुप्राणितोप्रेक्षा // 58 // . अथ धर्मचक्रं वर्णयति स्वर्णेति स्वर्णाब्जस्थितधर्मचक्रकं द्वारे पातकघातकं बभौ / .. . शेषं यत्करणीयमत्र तत् सर्व व्यन्तरनिर्जरा व्यधुः // 59 // द्वारे पातकानां घातकं नाशकम् स्वर्णाब्जे कनककमले स्थितं धर्मचक्रकं धर्मचक्रं बभौ, तथा अत्र यत् शेषमवशिष्टं करणीयमासीत्तस्सर्वमेव व्यन्तरनिर्जराः व्यधुश्चक्रुः // 59 // - अथ शान्तिजिनस्य तत्र प्रस्थानमाह श्रीशान्तिारति श्रीशान्तिर्भगवांश्चतुर्वियः, कोटाकोटिभिरावृतः सुरैः। आप्तोऽथो समवादिमे मृतिस्थाने प्रास्थित स स्थिति विदन् // 60 // अथो-अनन्तरम्--भगवान् श्रीशान्तिः कोटाकोटिभिः तत्सङ्ख्यकैः चतुर्विधैः भवनपत्यादिभिः सुरैरावृतः परिवेष्टितः सन् स्थिति अवसरमर्यादां विदन् स्थितिज्ञः आप्तः यथास्थितवस्तुवक्ता स भगवान् श्रीशान्तिः समवशब्द आदिमः पूर्वो यस्य तादृशे सृतिस्थाने सरणस्थाने, समवसरणस्थाने इति यावत् प्रास्थित प्रस्थानं कृतवान् // 60 //