________________ श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः। अथ स्वर्णकमलनिर्माणमाह-अप्र इति अग्रे शान्तिविभोविकुर्वते, स्माऽथ व्यन्तरनिर्जरा नव / हेमाब्जानि विकस्वराणि नु, द्रष्टुं साम्यमिवाऽङ्गशोभया // 61 // अथ प्रस्थानानन्तरम् व्यन्तरनिर्जराः शान्तिविभोरग्रे पादन्यासस्थाने अङ्गशोभया अङ्गकान्त्या साम्यं तुल्यतां द्रष्टुमिव नु विकस्वराणि विकसितानि नव नवसङ्ख्यानि हेमाब्जा-.. नि सुवर्णकमलानि विकुर्वते स्म // 61 // अथ स्वर्णकमले शान्तिजिनस्य क्रमशः पादन्यासमाह - तेष्विति तेष्वंही न्यधित द्वयोर्द्वयोरादावेव चलन् जगद्गुरुः। सप्तान्यानि पुरः पुरः सुरा, भक्त्याढ्याः समचारयन् रयात् // 62 // जगद्गुरुः लोकत्रयप्राणिमात्रोपदेशकः शान्तिजिनः चलन् सन् आदावेव प्रथममेव तेषु कमलेषु द्वयोर्द्वयोः कमलयोः अङ्घी चरणौ न्यधित न्यस्तवान् पादन्यासं विदधे इत्यर्थः तथा भक्त्याढ्याः भक्ततमाः सुराः रयात् शीघ्रं शीघ्रम् यथा जिनगतिरोधो न स्यादिति तथा भावः, पुरः पुरोऽग्रेऽने अन्यानि पुरा क्रान्तद्वयातिरिक्तानि सप्त कमलानि समचारयन् सञ्चारयामासुः चालयन्ति स्म // 62 // अथ देवकृतकमलश्लाघामाह-स्वर्णेति स्वर्णाब्जानि पदोरधःस्थितान्यालोक्य ब्रुवते स्म निर्जराः। निर्ग्रन्थाऽऽलिशिरोऽवतंसकः स्वर्णाधः करणादभूद् विभुः // 63 // निर्जरा देवाः विभोः शान्तिजिनस्य पदोश्चरणयोरधः स्थितानि स्वर्णाब्जानि आलोक्य ब्रुवते स्म, किमित्याह विभुः शान्तिजिनः स्वर्णस्य अधः करणात्पादाधःकरणात् अपरिग्रहेण स्वर्णे दौर्लभ्यबुद्धेरभावादिति ध्वनिः निर्ग्रन्थालिषु अपरिग्रहिषु रिशोऽवतंसकः शिरोमणिरभूत, महानयं तृष्णाजयो यत्स्वर्णे तिरस्कार इति भावः // 63 // अथ शान्तिजिनस्य समवसरणप्रवेशमाह-राजन्निति राजन् सोऽतिशयैरुदित्वरैनित्यज्ञानविभासुराकृतिः। पारद्वारा समवादिमं सतिस्थानं प्राविशदाऽऽश्रयः श्रियाम् // 64 // नित्यज्ञानेन केवलज्ञानेन विभासुरा उज्ज्वला आकृतिर्यस्य स तादृशः उदित्वरैः प्रकटितैरतिशयैः प्रसिद्धैर्ज्ञानातिशयादिचतुष्टयैः चतुस्त्रिंशदतिशयैर्वा राजन् शोभमानः श्रियां शश्वद्ज्ञानादिलक्ष्मीणाम् आश्रय आस्पदम् स शान्तिजिनः प्राग्द्वारा पूर्वद्वारेण समवादिम सृतिस्थानं समवसरणस्थानं प्राविशत् // 6 //