________________ 77 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / __ * बुधो-धीमान् स्वस्य परस्य प्रतिपक्षस्य वा बलञ्चाबलञ्च बलतारतम्यं विचार्य कार्यस्य विजयादिरूपस्य व्यवसायमुद्योगमाश्रयेत्कुर्यात् , अन्यथा विचारमुत्सृज्य अविचार्यैव गृहीतपौरुषः प्रयुक्तपराक्रमः महानपि पराभवं पराजयं विन्दति लभते, न बलेनैव कार्यसिद्धिः, किन्तु विचारसहितेनेति भावः // 252 // गरितिगजैः किमेभिर्महिषैरिवाऽमदैः खरैरिवोच्चैस्तुरगैरथापि किम ? नरैरमीभिः किमु वानरैरिव, प्रनर्तमानैः परदेशलिप्सया ? // 253 // 'महिषो वाहद्विषत्कासरसैरिभाः' -इत्यमरवचनाद् / महिषैः सैरिभैरिवाऽमदैः मदहीनैरंभिः सैन्यस्थितैः गजैः कृत्वा किम् ? न किञ्चिदपीत्यर्थः / मदहीना गजाः पौरुषहीनत्वान्न युद्धसहा इति भावः / अथापि तथा खरैः गर्दभैरिव युद्धक्रियानभिज्ञैः उच्चैः तुरगैः किम् ? न किश्चिदपि, एतादृशानां तुरगाणां खराणामिव युद्धे अकिश्चित्करत्वादिति भावः / परदेशस्य लिप्सया अधिकर्तुमिच्छया प्रवर्तमानैः आरम्भकर्तृभिः वानरैरिवाल्पसत्त्वैः अमीभिदृश्यमानैः नरैः सैन्यैः किमु ? न किञ्चिदपि अल्पसत्त्वतया एवाकिञ्चित्करत्वादिति भावः // 253 // महेतिमहाबलैः किं यदि वा महाबलै-स्तुरङ्गमैः कि यदि वा तुरङ्गमैः ? महारथैः किं यदि वा महारथै न सांयुगीना यदि ते महाभटाः ? // 254 // यदिमे उक्तविपरीतास्तथाप्यकिञ्चित्करा एवत्याह-यदि वा महाबलैः महापराक्रमैः महाबलैः सैन्यसमूहैः किम् ? न किमपीत्यर्थः / यदि वा तथा तुरङ्गमैः शीघ्रगामिभिः तुरङ्गमैरश्वैः किम् ? न किमपीत्यर्थः / यदि वा तथा महान्तः रथा येषां तादृशैः विशालरथशालिभिः महारथै भटविशेषैः सहस्रयोधिभिः किम् ? न किमपीत्यर्थः / तत्र हेतुमाह यदि ते महाभटाः योद्धारः सांयुगीनाः युद्धे हिताः युद्धाभ्यासवन्तः युद्धपटव इति यावत्, न, न सन्ति- योधानां रणकौशल्याभावे रथादिवैशिष्टयमकिञ्चित्करमेवेति भावः “सांयुगीनो रणे साधुः” इति हैमः // 254 // शाणेतिशाणाजीवानिवैतान् निशितबहुविधाऽस्त्राणि पाणौ दधानानस्माकं देशसीमां समुपनिपततो धिग् मुमूषून सुमूर्खान् एते चोपेक्ष्यमाणा व्यसनजननवद् नाऽऽयतौ शर्मणे स्युः, पञ्चत्वं प्रापयामः सुकृतपरिणतैः शक्तितस्तद् विमूढान् // 255 // शाणैः शस्त्रादितीक्ष्णीकरणादिकर्मभिर्जीवन्तीति ते तादृशाः, शाणाजीवो हि शस्त्रादीनि . तीक्ष्णानि करोति, न तु तत्प्रयोगे तदाघातसहने वा समर्थ इति भावः / तानिव निशितानि