________________ 76 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। तस्याः तमिस्राकन्दराया भित्योः कुडययोरपि काकिन्या तदाख्येन मणिना एकोनपश्वाशतं मण्डलानि विलिखन् स प्रभुः शान्तिजिनः प्रयासं श्रमं विनैव पुरतोऽग्रतोऽयासीत् / तथा चक्री शान्तिजिनः वर्धकिना सूत्रधारेण क्षिप्रं शीघ्रमेव निबद्धसरणिः निर्मितमार्गः सन् रचितसेतुनेति भावः तस्या गुहाया अन्तः मध्ये स्थितं परं विशालं निमग्नाभिधमुन्मग्नाख्यम् च हृदि न्योनद्योयम् अवातारीत् // 248 // तदेति तदाऽऽत्मनैवोद्धटितं तदौत्तरं महागुहाद्वारमुपागते विभौ / न चात्र चित्रं प्रतिभासते सतां शुभात्मनां यत् सकले सुसम्भवम् // 249 // तदा उद्भित्त्यवतारसमये विभौ शान्तिजिने उत्तरद्वारसन्निध उपागते तस्या औत्तरं तदौत्तरमुत्तरदिक्स्थं तमिस्राख्यमहागुहाया द्वारम् आत्मना स्वत एव उद्घटितम्, ननु एतच्चित्रम् पिहितं द्वारं कथं स्वयमेवोद्विटितमिति चेत् तत्राह- अत्र स्वयं द्वारोद्घाटनविषये चित्रमाश्चर्य नच नैव प्रतिभासते यद्यतः शुभात्मनां पुण्यवतां सतां महतां सकलं शक्यमशक्यं सर्वमेव सुसम्भवम् युज्यते, पुण्यप्रभावतो-ऽशक्यमपि शक्यं भवतीति भावः // 249 / / विजेतुमितिविजेतुमेवोत्तरभारतं पृथु कुबेरदिग्द्वारिकयैव निःसृतम् / ससैन्यमायान्तमवेक्ष्य चक्रिणं सहासमापातशका मिथो जगुः // 250 // पृथु विशालमुत्तरभारतं विजेतुमेव नतु केवलं पर्यटितुम् कुबेरदिश उत्तरदिशः द्वारिकया द्वारेणैव निःसृतम् गुहाबहिर्गतम् चक्रिणं शान्तिजिनं ससैन्यमायान्तमवेक्ष्य आपातशकाः शकनातीयाः जनाः मिथः परस्परं सहासम् अवज्ञासूचकहाससहितं जगुः ब्रुवन्ति स्म // 250 // शकवाचमेवाह-अरे ! अरे ! चतुर्धा बलमानशालितः क एव निःशङ्कमुपैति गर्वितः।। बलावलेपेन परोपवर्तनं ग्रहीतुकामः क इवाभिवर्ण्यताम् // 251 // अरे ! निकृष्टसम्बोधनमिदम् , चतुर्धा गजाश्वरथपत्तिरूपचतुःप्रकारेण बलमानेन सैन्यप्रमाणेन शालितः शोभितः चतुरङ्गबलसहितः, गर्वितः गर्वयुक्तः क एव निशङ्क निर्भयमुपैत्यागच्छति ? अत्रागमने तु भेतव्यमेव सर्वैरिति भावः / अथवा बलस्य वीर्यस्यावलेपेन गर्वेण परस्यान्यस्योपवर्त्तनं देशं ग्रहीतुकामः वशीकर्तुकामः क इवाभिवर्ण्यताम् ? परमण्डलं विजिगीषुर्हि गर्वितश्चनिन्दनीय एव न तु प्रशंसनीय इति यावत् // 251 // बलेतिबलावलं स्वस्य परस्य वा बुधो विचार्य कार्यव्यवसायमाश्रयेत् / विचारमुत्सृज्य गृहीतपौरुषः पराभवं विन्दति यद् महानपि // 252 // .