SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ More आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् * चक्री चक्रमनुव्रजंश्च सबलः प्राप्तस्तमिस्रां गुहा मासीनः कृतमालकाभिधसुरं चक्रे सहेलं वशम् // 245 // वैताढ्यशैलस्य प्रभुरीशो देवः सपृतनं ससैन्यं स्वामिनं शान्तिजिनमागतं ज्ञात्वा कृतोपायनः उपहृतोपायनः सन् द्राक् शीघ्रमागत्य विनत्य प्रणम्य च विभोः शान्तिजिनस्य शिष्टिमाज्ञामादित स्वीकृतवान् चक्री शान्तिजिनश्च सबलः ससैन्यः चक्रमनुत्रजन्–चक्रमनुगच्छन् तमिस्रां तदाख्या, गुहां कंदरां प्राप्तः “दरी तु कंदरोवा स्त्री देवखातबिले गुहे" त्यमरः / तत्राऽऽसीनः स्थितस्सन् प्रभुः कृतमालकाभिधं सुरं सहेलमनायासेनैव वशं स्वाधीनं चक्रे // 245 // आक्षप्त इति- . आज्ञप्तः प्रभुणा चमूपतिरथो सिंधु नदीं चर्मणा, पोत्तीर्य स्ववशंवदं व्यरचयत् तन्निष्कुटं दक्षिणम् / तामिस्रं विहिताष्टमः स च जवादुद्घाटयामासिवान् , द्वारं स्वामिनिदेशतः पृथुमतिर्दण्डेन रत्नेन तत् // 246 // अथो-अनन्तरम् प्रभुणा-शान्तिजिनेन आज्ञतः चमूपतिः सेनापतिः चर्मणा चर्मरत्नेन सद्यानपात्रीभूतेन स सिन्धु नदी प्रोत्तीर्य दक्षिणं दक्षिणादिक्थं तन्निष्कुटं स्ववशवदं व्यरचयत् / तथा स्वामिनः शान्तिजिनस्य निदेशतः आज्ञप्तः विहितम् अष्टमं तदाख्यं तपो येन स तादृशः पृथुमतिर्महाबुद्धिः चमूपतिः दण्डेन रत्नेन दण्डरत्नेन तामित्रं-द्वारम् जवात् शीघ्रमेवोद्घाटयामासिवान् // 24 // प्रविश्येति प्रविश्य बाष्पोपरमे तदन्तरे महेभमारुह्य चम्रपरिष्कृतः / निधेश्य कुम्भे मणिमेव दक्षिणे दरीतमच्छेदयति स्म चक्रभृत् // 247 // बाष्पस्य-"बाष्प ऊष्मा” इति हैमः,, तमिस्रागुहावत्तिन ऊष्मण उपरमे निवृत्तौ सत्यां चक्रभृत् शान्तिजिनः महेभं गजराजमारुह्य चमूभिः सेनाभिः परिष्कृतः समन्वितः तदन्तरे तस्या तमिस्राया अभ्यन्तरे प्रविश्य दक्षिणे कुम्भे गजापसव्यकुम्भे मणिं निवेश्य स्थापयित्वा एव दर्याः कन्दरायाः तमोऽन्धकारं छेदयति नाशयति स्म // 247 // तदेति तद्भित्त्योरपि मण्डलानि विलिखन्नेकोनपश्चाशतं, काकिन्या मणिना प्रभुः स पुरतोऽयासीत् प्रयासं विना / चक्री वर्धकिना निबद्धसरणिः क्षिप्रं निमग्नाभिधोन्मग्नाख्यं हृदिनीद्वयं परमवातारीत् तदन्तःस्थितम् // 248 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy