________________ 7. ___ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / सुमतिः ज्ञानी स्वामी शान्तिजिनः सिन्धुसिन्धोः सिन्धुनद्याः-"सिन्धुः समुद्रे नद्यां चेति विश्वकोशः" प्रतीरे तटे "प्रतीरं च तटं त्रिष्वित्यमरः / " सिन्धुदेव्याः गृहस्य मंदिरस्य सविधसविधे अतिसमीपे वामे रम्ये वामे वामभागे-“वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेषु चेत्य मरः" / सैन्यं न्यधित निवेशयामास सैन्यानामनहेऽयोग्ये यस्मिन् तटे धन्वनि मरुदेश इव"मरुधन्वानौ इत्यमरः" / प्रायशः वदनानां मुखानां, रदनानां दंतानां, श्रोत्राणाञ्च काश्मल्यस्य कृष्णतायाः भित्यै भेदनाय दूरीकरणाय ताणं तृणसमूहः जलमपि च न नाभूत् // 242 // शान्तिमिति शान्ति स्वाभिमुखं जगत्त्रयपति सिंहासनस्थायिनं, विज्ञायाऽवधिनोपदाभृतकरा श्रीसिन्धुदेवी मुदा / आगत्य प्रणिपत्य विज्ञपयति स्मैनं प्रभुं प्राञ्जलिधन्याऽहं तव दर्शनादिह विभो ! स्थास्नुनिदेश्या सदा // 243 // जगत्त्रयपति शातिं शातिजिनं स्वाभिमुखं सिंहासनस्थायिनमवधिनाऽवधिज्ञानोपयोगेन विज्ञाय मुदा उपदाभिः भृतः पूर्णः करो यस्याः सा गृहीतोपदा श्रीसिन्धुदेवी आगत्य प्रणिपत्य प्राञ्जलिबद्धाञ्जलिः सती एवं प्रभु शान्ति विज्ञपयति स्म, एवमिति किमित्याह-विभो ! इहात्र स्थास्नुः स्थिताऽहं तव दर्शनाद्धन्या प्रशस्या जाता, सदा निदेश्या आज्ञातव्या च त्वयेति शेषः॥२४३॥ इतीति इत्यालप्य समर्प्य भास्वरतरं दिव्यं विभूषाचयं, जात्याष्टापदभूरिरत्नसक्नद्रोणीघटान् सा समान् / विश्वेशः प्रतिपद्य शिष्टिममरी सत्कारमाप्याऽगमत् , स्वस्थानं वृषभध्वजस्य च दिशा वैताढयशैलं प्रभुः // 244 // इत्युक्तप्रकारमालप्योक्त्वा सा सिन्धुदेवी भास्वरतरमतिभास्वरं दिव्यं विभूषाणामलङ्काराणां चयं राशिमसमानऽनुपमान् समर्प्य शान्तिजिनायोपहृत्य अमरी शिष्टिमाज्ञां सत्कारञ्चाप्य स्वस्थानम् अगमत् जगाम, विश्वेशः शान्तिजिनश्च प्रभुः प्रतिपद्य सिन्धुदेव्युपहृतं स्वीकृत्य वृषभ ध्वजस्येशानस्य दिशा ईशानदिशा वैताढ्यशैलमगमत् // 244 // ज्ञात्वेति ज्ञात्वा स्वामिनमागतं सपृतनं वैताढयशैलप्रभुागाऽऽगत्य विनत्य चाऽऽदित विभोः शिष्टिं कृतोपायनः / /