________________ 73 www आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / विसेति-- विसर्जितः सत्कृतिपूर्वकं सुरः प्रसादभाजा स च शान्तिचक्रिणा / __ ययौ निजस्थानमनाहतक्रमं समुल्लसत्तोषपरीतमानसः // 239 // प्रसादभाजा प्रसन्नेन शान्तिचक्रिणा चक्रवर्तिना शान्तिनाथेन सत्कृतिपूर्वकम् ससत्कारं विसर्जितोऽनुज्ञातः स सुरः मागधतीर्थेशश्च समुल्लसता तोषेण हर्षेण परीतं पूर्ण मानसं यस्य स नितरां तुष्टहृदयः सन् अनाहतक्रमं क्रममनतिक्रम्य निजस्थानं ययौ // 239 // तत इति ततः क्षणादक्षिणवाधिरोधसि स्थितः स्थिराधीशनतक्रमाम्बुजः / असाधयद् मागधवत् समागधः सुरं स्वशक्त्या वरदामनायकम् // 240 // ततो मागधेशगमनानन्तरम् क्षणात्स्वल्पकालत एव स्थिरायाः पृथिव्याः अधीशैः महीशैः नते प्रणते क्रमांबुजे पादपद्म यस्य स तादृशः समागधः मागधेन सहितः शान्तिजिनः दक्षिणवार्धेः दक्षिणसमुद्रस्य रोधसि तीरे-“कूल रोधश्च तीरश्चे"-त्यमरः" ! स्थितः सन् वरदामस्य तदाख्यतीर्थस्य नायकमीशं सुरं देवम् स्वशक्त्या मागधवन्मागधतीर्थेशवदसाधयत् स्ववशीचकार // 240 // सैन्यमिति सैन्यं पश्चिमवारिधेरनुतटं विन्यस्य शान्तिप्रभुदत्तानय॑मणीविभूषणगणं शिष्टिमतीष्टिवतम् / समान्यप्रतिभासमानममरं तं च प्रभासेश्वरं, वाताधीशदिगध्वना चलितवान् श्रीसिन्धुदेवी प्रति // 241 // शान्तिप्रभुः पश्चिमवारिधेः अनुतटम् तटे सैन्यं विन्यस्य स्थापयित्वा दत्त उपदीकृतः अनयाणाममूल्यानां मणीविभूषणानां गणो येन तं तादृशम् शिष्टौ निजाज्ञायाम् “शिष्टिश्चाज्ञा चेत्यमरः" / प्रतीष्टिः प्रीतिः व्रतं यस्य तं तादृशमाज्ञापालकं प्रतिभासमानम् प्रभासस्य तदाख्यतीर्थस्य ईश्वरमधिनायकममरं देवं तश्च सम्मान्यानुमतं कृत्वा वातः पवनोऽधीशः पतिः यस्याः तद्दिगध्वना वायव्यदिङ्मार्गेण श्रीसिन्धुदेवी प्रति चलितवान् // 241 // स्वामीति स्वामी सैन्यं न्यधित सुमतिः सिन्धुसिन्धोः प्रतीरे, वामे वामे सविधसविधे सिन्धुदेवीगृहस्य। . यस्मिंस्ताणे न च जलमपि प्रायशो धन्वनीव, सैन्यानहें वदनरदनश्रोत्रकाश्मल्यभित्त्यै // 242 // . शा. 10 मा