________________ 72 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / इदमुक्तप्रकारं निजेन चेतसा विनिश्चित्य उपदामुपहारं समादाय सत्वरं समेत्य प्रभोः शान्तिजिनस्य पुरः नक्षत्रपथेऽन्तरीक्षे कृतस्थितिः स्थितः सन् देवानामभूमिस्पृक्त्वादिति भावः / पदारविन्दद्वितयं शान्तिजिनपादपद्मयुगं ननाम // 234 // व्यजीतिव्यजिज्ञपञ्चाभयदानदक्षिण ! त्वया विभो ! मत्पदमायता स्वयम् / सुरेषु रेखा मम नैव केवलं, निवेशिता किन्तु सुरेश्वरेष्वपि // 235 // ___ व्यजिज्ञपत् मागधतीर्थशः न्यवेदयच्च कित्यिाह-अभयदाने दक्षिण ? समर्थ ! प्रभो ! स्वामिन् ! मत्पदम् मत्स्थानं स्वयमेवायताऽऽगच्छना त्वया मम केवलं सुरेष्वेव रेखा पङ्क्तिः न निवेशिता, किन्तु सुरेश्वरेष्वपि * मदीया रेखा निवेशिता, सुरेश्वरपङ्क्तावेव मम पङ्क्तिरपि न्यस्तेत्यर्थः // 235 // सुरेष्वेति सुरेश्वराणां न कदापि यत्पदं स्वपादपद्मस्त्वयका पवित्रितम् / पवित्रितं देव ! ममैव तत्परं कृतः कृतार्थोऽस्मि निकृत्यपासिना // 236 // यद्यतः निकृत्यपासिना भवबन्धननाशकेन त्वयका त्वया स्वपादपद्मः सुरेश्वराणां पदं स्थानं कदापि न पवित्रितम् , देव ! परं किन्तु ममैव तत्स्थानं पवित्रितमित्यतः कृतार्थः / कृतकृत्यः कृतोऽस्मि, सुरेन्द्रेभ्योऽपि उक्तहेतोस्तव मय्यधिकोऽनुग्रह इत्यर्थः // 236 // अत इति अतः परं ते विनियोगवर्तिनां पुरस्सरोऽस्म्येष विशेषवेदितः / निदेशदानेन यदा कदाचन, प्रसादनीयः स्मृतिपूर्वकं त्वया // 237 / / अतः परमितोऽप्रे विशेषवेदितः वैशिष्टयम् निजागमनादिना प्रापितः एषोऽहम् मागधतीर्थेशः ते तव विनियोगवर्तिनामाज्ञास्वीकुर्वतां पुरस्सरोऽप्रेसरोऽस्मि, त्वया यदा कदाचन स्मृतिपूर्वकं स्मृत्वा निदेशदानेनाज्ञाप्रदानेन कृत्वा प्रसादनीयोऽनुप्राह्योऽस्मि // 237 // इतीति इतीरयित्वा मणिपत्य नित्यगीः सुरस्ततोऽस्मै मणिभूषणाऽञ्चितम् / . उपायनं सन्निधिमानुपानयद् न तादृशां रजनमन्यदस्ति यत् // 238 // इत्युक्तप्रकारमीरयित्वा प्रणिपत्य प्रणम्य नित्यगीः सत्यवाक्सुरः मागधतीर्थदेवः ततः प्रणामानन्तरम् सन्निधिमान् समीपस्थः सन् मणिभूषणाञ्चितम् उपायनमुपहारमुपानयदुपढोकितवान् , ननु किमिति साधारणं द्रव्यादि नोपानयदित्यत आह- यद्यतः तादृशां महतामन्यत्साधारणद्रव्यादि रञ्जनं मनःप्रीतिजनकं नास्ति महतां महद्भिरेव तृप्तिरिति भावः // 238 //