________________ आ० श्रीविजयदर्शनसुरीश्वरकृत-प्रबोधिनीयुतम् __ - षोडशधर्मचक्रिणं तीर्थङ्करं पञ्चमचक्रवत्तिनम् तं शान्तिजिनं समागतमवेत्य ज्ञात्वा ऋद्धा सातिशया चेतना बुद्धिर्यस्य स तादृशः धीमान् मागधतीर्थनायकः पुनः स्वचेतसा एवं वक्ष्यमाणप्रकारेण व्यचारयत् दध्यौ // 230 // तविचारणामेवाह अहो! इति अहो! धिगज्ञानमिदं ममाधुना, प्रभुत्वमेतद् धिगपि प्रसृत्वरम् / - . विज़म्भणाद् यस्य न शान्तिमागतं, कथञ्चिदज्ञासिषमेव नायकम् // 231 // अहो इति खेदावेदे / अधुना मम इदमऽज्ञानं धिक् , निन्दितमित्यर्थः, एतद्वतमानं प्रसृत्वरं वर्धमानं प्रभुत्वमिति धिक्, निन्दने हेतुमाह-यस्याज्ञानस्य प्रभुत्वस्य च विजृम्भणान्मोहादिरूपस्वप्रभावप्रकाशनाद्धेतोः कथञ्चिन्मदीयपुण्यसम्भारादितः आगतं नायकं शान्तिजिनं न अज्ञासिषम् // 231 // उपेति उपासनामल्पितकल्पशाखिनः, प्रकुर्वते यस्य च कल्पवासिनः / प्रभोः सपर्यामपि तस्य कीदृशी-महं करिष्यामि तनिष्ठऋद्धिकः ? // 232 // यस्य शान्तिजिनस्य अल्पितः लघूकृतः चिन्तितादप्यधिकफलदानादिना कल्पशाखी कल्पवृक्षो येन तस्य प्रभोः कल्पवासिनः वैमानिकाः देवाश्चोपासना सेवाम् प्रकुर्वते, तस्य प्रभोः शान्तिजिनस्य तनिष्ठऋद्धिकोऽत्यल्पशक्तिः अहं मागधतीर्थेशः कीदृशीं किम्प्रकारां सपर्यामर्हणामपि करिष्यामि ? मत्कृतार्हणाऽत्यल्पैव भवेदिति भावः // 232 // - स्वेतिस्वसंपदोऽस्याऽप्यनुसारतः प्रभोस्तथापि भक्तिं वितनोमि सांप्रतम् / महात्मनां कार्मणकर्मणि स्फुटं, विहाय भक्तिं न परं हि साधनम् // 233 / / तथापि अल्पर्द्धित्वेऽपि स्वसम्पदः अनुसारतोऽपि अनुरूपतोऽपि साम्प्रतमस्य प्रभोः शान्तिजिनस्य भक्तिम् सेवां वितनोमि करोमि, भक्तिरेव सेवायां प्रधानं, न सम्पदित्याह हि यतः महात्मनाम् पुरुषोत्तमानां तीर्थङ्करादीनां कार्मणकर्मणि कैङ्कर्ये भक्तिं विहाय परं सम्पदादिसाधनं न, स्फुटमेतत्,,महात्मनां स्वयं सर्वाधिकतरकित्वात्तत्र भक्तरेव योग्यतेति भावः // 233 // इदमितिइदं विनिश्चित्य निजेन चेतसो, पदां समादाय समेत्य सत्वरम् / पदारविन्दद्वितयं पुरः प्रभो नाम नक्षत्रपथे कृतस्थितिः // 234 //