________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। न्धुरपि रत्नसंचयावान् सरस्वतीपदं च सम्भाव्यते इति तादृशः जिनः स्वबन्धुरेवेति भावः, समीरणेन पवनेन प्रेरितैः उत्तालीकृतैः विचयास्तरङ्गा बाहव इव तैः समालिलिङ्गेव कथमन्यथा तरङ्गोत्थानमिति भावः श्लेषपुष्टोपमा // 226 // अधोइति अथो निविष्टः स च सिंहविष्टरे, स्वयं प्रभुर्मागधतीर्थसंमुखम् / जिनेन्द्रचक्रिद्वयवृत्तवर्तिनां, ललामभूतः कमनीयविग्रहः // 227 // अथो अनन्तरम् जिनेन्द्राणां चक्रिणां च चक्रवर्तिनां च द्वयं युगलं तस्य वृत्तं चारः तत्र वर्तन्ते इति तेषां जिनेन्द्राणां चक्रवर्तिनाञ्च ललामभूतः तिलकरूपः कमनीयविग्रहः रमणीयशरीरः प्रभुः स शान्तिजिनः स्वयं पूर्वदिशि समुद्रतटात् मागधतीर्थसम्मुखम् सिंहविष्टरे सिंहासने निविष्टः उपविवेश // 227 // - अवेति अवस्थितो द्वादशयोजनान्तके, स्वकीयसिंहासनकम्पनादनु / समुत्पतत्क्षोभसमाकुलाशयो, व्यचिन्तयद् मागधतीर्थनायकः // 228 // द्वादशयोजनानामन्तकेऽन्तेऽवस्थितः मागधतीर्थस्य नायकः देवः मागधकुमारनामा स्वकीयसिंहासनस्य कम्पनादनु पश्चात् समुत्पतद्भिः उत्पद्यमानैः क्षोभैः व्याकुलताभिः समाकुलः पीडितः आशयो यस्य स तादृशः अकस्मात्सिंहासनकम्पनात् क्षुब्धः सन् व्यचिन्तयत् // 228 // मागधतीर्थेशचिन्तामेवाह-मदिति मत्सिंहासनकम्पमाप यदिदं निष्कम्पमेवान्वहं, तत्किं मे च्यवनं किमद्भुतमहो! विघ्नोऽपि भावी किमु ? / शत्रोरेव विचेष्टितं किमथवा कस्यापि चैतन्मम, ध्यात्वैवं स च संशयापहतये प्रायुक्त बोधं निजम् ? // 229 // अन्वहं सर्वदैव निष्कम्प स्थिरमिदं मत्सिंहासनम् एवं स्वभावे सत्यपि यद् मत्सिंहासनकंपम् कंपनमाप, किमिति वितर्के तन्मे किं च्यवनम् अहो किमद्भुतमाश्चर्य विघ्नोऽपि विघ्नो वा किं भावी, अथवा एतत्सिंहासनकम्पनम् कस्यापि मम शत्रोरेव विचेष्टितम् किम् ? एवमित्थं ध्यात्वा वितळ संशयस्यापहतये भेदनाय स मागधतीर्थेशश्च निज बोधं प्रायुक्त निजावधिज्ञानोपयोगं ददावित्यर्थः // 229 // अवेत्येति अवेत्य तं षोडशधर्मचक्रिणं, समागतं पञ्चमचक्रवर्तिनम् / / व्यचारयद् मागधतीर्थनायकः, स्वचेतसैवं पुनर्ऋद्धचेतनः // 230 // .