________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् जनकः किं न ? अपि तु विस्मय जनक एव चमूत्खातधूलिं दृष्टदैव नृपपलायने कर्तव्ये सत्यपि तन्न कृतमिति विस्मय इति भावः // 223 // गत्वेति गत्वा योजनमात्मशक्तिनियते श्रीचक्ररत्ने स्थिते / स्वामी द्वादशयोजनानि शिबिरं न्यास्थद् व्यवस्थापरः / नास्मार्षीद् निजवेश्मनामपि जनः कश्चिच्च सेनाचर स्तिष्ठन् वार्धकिरत्ननिर्मितगृह-स्तोमेषु रम्येष्वलम् // 224 // योजनं योजनप्रमाण क्षेत्रं गत्वा आत्मशक्त्या नियते नियन्त्रिते श्रीचक्ररत्ने स्थिते, गतिविरते सति व्यवस्थापरः सैन्यव्यवस्थालग्नः स्वामी शान्तिजिनः द्वादशयोजनानि द्वादशयोजनप्रमाणदेशं यावत् शिविरं, सेनानिवेशं न्यास्थत् सैन्यव सस्थानं चकार / 'निवेशः शिबिरं' इत्यमरः सेनाषु चरतीति तादृशः सेनासमवेतः कश्चिज्जनश्च अलमत्यर्थं रम्येषु वार्धकिरत्नेन सूत्रधारश्रेष्ठेन निर्मितेषु गृहाणां स्तोमेषु श्रेणीषु तिष्ठन् निवसन् निजवेश्मनामपि नास्मार्षीत् , स्वगृहमपेक्ष्याऽपि अत्र सौविध्यविशेष्यलाभादिति भावः // 224 // गच्छन्निति गच्छन्नैवं प्रतिदिनमविच्छिन्नरूपैः प्रयाणैविश्वोत्तापं व्यपगमयितुं प्राप्तविस्तारसारः / पूर्वाम्भोधिं सुकृतविदुषां वन्दनीयोऽमराणां, पाप स्वामी रसमय इव स्वःस्रवन्त्याः प्रवाहः // 225 // एवमुक्तप्रकारेण प्रतिदिनमविच्छिन्नरूपैः निरन्तरैः प्रयाणैः प्रस्थानैः कृत्वा गच्छन् विश्वस्योत्तापं दुःख तापं वा व्यपगमयितुं दूरीकर्तुं प्राप्तः विस्तारः विपुलः सारो बलमतिशयश्च येन सः, तथा विस्तरसारोऽतिविस्तृतः पटविस्तारो वा येन स शान्तिजिनः प्रवाहश्च, सुकृतविदुषाम् पुण्यवतां धीमताम् अमरानां देवानां वन्दनीयः स्वामी शान्तिजिनः रसमयः जलमयः शान्तिपक्षे गुणमयश्व, “गुणे रागे द्रवे रसः' इत्यमरः, स्वःस्रवन्त्याः गङ्गायाः प्रवाह इव पूर्वाम्भोधिं पूर्वसमुद्रं प्राप // 225 / / सरेति सरस्वतीनामविनश्वरं पर्द, स्वबन्धुवत् सद्गुणरत्नसञ्चयम् / समीरणरिप्रेतवीचिबाहुभिः, समालिलिङ्गेव विभुं पयोनिधिः // 226 // ___पयोनिधिः समुद्रः सरस्वतीनां विद्यानां नदीनां च अविनश्वरं स्थिरं पदं स्थानं सद्गुणा एव रत्नानि तेषां संचयो यस्मिन् स तादृशः तम् विभुं शातिजिनं स्वबन्धुवत् समुद्र इव तह