________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / प्रभोः शान्तिजिनस्य विजयश्रिया उद्भटाः भटश्रेष्ठाः समज्ञायाः यशसः ग्रहणे उपार्जने लालसोऽपि च" इतिचामरः / अनेकशः बहुशः प्रासाः कुन्ताः भालाख्यास्त्र विशेषाः "प्रासस्तु कुंत" इत्यमरः कृपाणा खड्गाश्च पाणिषु येषां, तादृशाः, अत एव प्रतिप्रतीकं-"अङ्गांप्रतीकोऽवयवः इत्यमरः"--प्रत्यवयवमोजसा बलेन रचिता इव स्थिता भटा योद्धारः प्रचेलुः // 220 // मृदङ्गेति-- मृदङ्गढक्कादिकवाधनिस्वनै रवे रयाश्वेषु पलाय्य यत्सु च तुरङ्ग एक क्वचनापि यद् ययौ तदत्र ते पाथिरे न सप्तते किम् ? // 221 // __ मृदङ्गढक्कादिनां वाद्यानां निस्वनैः शब्दैः कृत्वा रवेः सूर्यस्य रथस्याश्वेषु पलाय्य अभूतपूर्वशब्दश्रवणजन्यभयान्नंष्ट्वा, शब्दभयात्पलायनमश्वस्वभाव इति भावः यत्सु गच्छत्सु. सत्सु च एकः तुरङ्गः क्वचनाज्ञातप्रदेशे यद्यतो ययौ, तत्ततो हेतोः एकोनत्वात् अत्र लोके ते रवितुरङ्गमाः सप्त न पाथिरे ख्याताः किमिति प्रश्ने, न हि साधारणो लोकः रवेः सप्तहयाः कथमिति जानाति इति भावः // 221 // तदेति-- तदा जगन्नाथचमूमहाभराद् महीतले न्यञ्चति भोगिनां पतिः। फणासहस्रं धृतये विजज्ञिवान् मणिप्रभावाऽगणितोरुयातनः // 222 // तदा प्रयाणसमये जगन्नाथस्य शान्तिजिनस्य चमूनां सेनानां महतोऽसहनीयाद्भराद् भाराद् हेतोः महीतले न्यश्चति नीचैः गच्छति सति मणिप्रभावैः अगणिता न ज्ञाता उर्वी सैन्यभरजन्या यातना तीवेदना येन स तादृशाः भोगिनां सर्पाणां पतिरीशः शेषनागः धृतये पृथिव्यवलम्बनाय फणानां फटानां सहस्रं विजज्ञिवान् उत्यादयामास, स्वाभाविकपणासहस्रं प्रागुक्तरीत्याध्यवसितमिति असम्बन्धे सम्बन्धरूपाऽतिशयोक्तिः // 222 // . चमूसेति-- चमूसमुत्खातरजोभरैः प्रभोवितायमाने सति दुर्दिने घने / न राजहंसाः परदेशमैयरुश्चमूचराणां किमयं न विस्मयः ? // 223 // प्रभोः शान्तिजिनस्य चमूभिः सेनाभिः समुत्खातैः समुद्भूतैः रजोभरैः धूलिसञ्चयैः घने मेघे दुर्दिने मेघाच्छन्नदिने वितायमाने क्रियमाणे सति राजानो हंसा इव ते परदेशमन्यदेशं प्रति न ऐयरुः जग्मुः धनागमे हंसाः एतद्देशं विहाय मानसं यान्ति दुर्बला राजनोऽपि परभीताः स्वदेशं त्यजन्ति, किन्तु शान्तिंजिनसैन्यधूलिं दृष्ट्वाः दुर्दिनत्वादिग्ज्ञानाभावाद् हंसा इव राजानोऽपि ततद्देशं न त्यजन्ति स्म अयमुदन्तः-चमूचराणां सैन्यानां विस्मयः विस्मय