SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् जिनचक्रवर्ती जिनेन्द्रः श्रीशान्तिः सलक्षैः सावधानैः दशशतीप्रमितैः सहस्रप्रमाणैः अधिष्ठिता आश्रिता वित्तस्य धनस्य रक्षा येषु तैस्तादृशैः वित्तरक्षानियुक्तैः यक्षैः अधिष्ठितम् तच्चक्रमनु सैन्यैः उत्थितेन गमनेन कृत्वा उद्भूतेन रजसा धूलीभिः ककुभां दिशां विभागान् दशदिशा इत्यर्थः, आच्छादयन् व्याप्नुवन् सततं ययौ // 216 // पुरेति पुरस्कृताः सम्पति मन्दगामिनोऽप्यनेन भर्ना वयमेव केवलम् / इतीव वेगेन गजाः प्रतस्थिरे क्षरन्मदप्लावितरेणुसंचयाः // 217 // अनेन भर्ना शान्तिजिनेन सम्प्रति मन्दगामिनः, स्थूलत्वादिति भावः, अपि केवलं वयं गजा एव, न त्वन्ये, पुरस्कृताः, अग्रेसराः कृताः, सैन्यप्रयाणे गजा एवाग्रतो भवन्तीति भावः क्षरता मदेन प्लाविता रेणुसञ्चयाः धूलिराशयो यैस्तादृशा मदस्राविणो गजाः वेगेन प्रतस्थिरे जग्मुः सर्वोऽपि पुरस्कृतः कार्येषूत्सहते इति भावः // 217 // हिरेति हिरण्मयैः पल्ययनैविराजितास्तुरङ्गमा नैकविधास्ततोऽचलन् / प्रभजनः खज्जित एव यैर्धवं जवेन न स्याद् मृगवाहनोऽन्यथा 218 // ततः गजाननु हिरण्मयैः सौवर्णैः पल्ययनैः-"पर्याणं तु पल्ययनं'-( इत्यभिधानचिन्तामणिः) विराजिताः नेकविधाः अनेकप्रकारास्तुरङ्गमा अचलन् , यैः तुरङ्गमैः, जवेन वेगेन कृत्वा प्रभञ्जनः महावात एव खञ्जितः गतिविकलः कृतः, तुरङ्गमानां पवनातिगवेगत्वादिति भावः ध्रुवमेतत् , अन्यथा मृगवाहनः न स्यात् , प्रभञ्जन इत्याल्लभ्यते पद्भ्यामशक्तो हि वाहनेन सञ्चरते इति भावः // 218 // ___ ददाविति ददौ त्रिलोकीपतिरात्मनः पदं सनातनं नः प्रमना जगत्त्रये / इतीव चीत्कारमिषाद् निजस्तवं विनिर्मिमाणैश्चलितं रथोत्तमैः // 219 // त्रिलोकीपतिः शान्तिजिनः प्रमनाः प्रसन्नः सन् नोऽस्माकं रथानाम् जगत्त्रये आत्मनः स्वस्य सनातनं पदं ददौ, इतीवेति मन्वान इव चीत्कारस्य चक्रादिधर्षणजन्यशब्दस्य मिषाद्व्याजान्निजस्य स्वस्य रथस्यैव स्तवं गुणकीर्तनं विनिर्मिमाणैः कुर्वाणैः आत्मानं श्लाघमानैः रथोत्तमैः चलितम् प्रस्थानं कृतम् // 219 // प्रभोरिति प्रभोः प्रचेलुर्विजयश्रियोद्भटा भटाः समज्ञाग्रहणैकलम्पटाः / अनेकशः पासकृपाणपाणयः पतिपतीकं रचिता इवौजसा // 220 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy