________________ 66 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / अथानन्तरम्, आयुधागारिकः शास्त्रागाराध्यक्षः एत्यागत्य कृत्यविद्विधिज्ञः स सत्वरं प्रणिपत्य तं शान्तिजिनं व्यजिज्ञपत् , किमित्याह-नरेन्द्र ! त्विषां प्रभाणां चयेन समूहेन आयुधागारं विभासयतीत्येवं शीलेन चक्रेण स्वयं प्रकटितेन चक्राख्यरत्नेन त्वं वय॑से प्रशस्यसे तवायुधागारे चक्ररत्नं प्रकटितमिति यावत् / / 212 // अथ चक्रमेव वर्णयति सहस्रति-- सहस्रभानुस्तव शस्त्रसद्मनि, स्फुरत्सहस्रारकचक्रकैतवात् / प्रविश्य सान्निध्यमवाप्य सांप्रतं, किमु स्वयं राहुमयं जिगीषति ? // 213 // तव शस्त्रसमनि शस्त्रागारेऽयं प्रसिद्धः सहस्रभानुः सूर्यः स्फुरतः प्रभासतः सहस्रारकस्य चक्रस्य तदाख्यरत्नस्य कैतवाद्याजात् प्रविश्य सांप्रतं तव सान्निध्यमवाप्य स्वयं राहुं स्वग्रसितारं शत्रु जिगीषति जेतुमिच्छति किमु वितर्के इति मन्ये सर्वोऽपि हि बलवत्सान्निध्यमवाप्य स्वशत्रु जयतीति भावः / सूर्यवत्तेजस्वि तच्चक्रमिति यावत् / उत्प्रेक्षा // 213 // सेति स चक्ररत्नस्य नृरत्नमात्मना, व्यदीधपत् पूजनमष्टवासरान् / न किं विजानन्ति तरां हि संविदां, त्रयेण विद्योतितचेतसोऽथवा ? // 214 // स नृरत्नम् शान्तिजिनः आत्मना स्वयमेव चक्ररत्नस्य अष्टवासरान् यावत्पूजनं व्यदीधपत्, फारयामास, विधिज्ञत्वादिति भावः, तदेवाह-अथवा, यतः संविदां ज्ञानानां त्रयेण मतिश्रुत्यपधिरूपेण विद्योतितचेतसः शुद्धहृदयाः शान्तिजिनसदृशाः किं न विजानन्ति तराम् ! अपि सर्वमेव विधि जानन्त्येवेत्यर्थः // 214 // अथ शान्तिजिनस्य षट्खण्डसाधनविधि धर्णयति अष्टेतिअष्टाहिकाविरमणे सति तच्च चक्रं व्योम्ना चचाल हरित प्रति वासवस्य / तेनैव वासरमणे वमेकचक्रः ख्यातो रथः सविधदेशविवर्तिनाऽपि // 215 // अष्टाहिकायाः अष्टाहिकामहोत्सवस्य विरमणे सति समाप्तौ सत्याम् तदायुधागारस्थं चक्र च व्योम्ना आकाशमार्गेण वासवस्येन्द्रस्य हरितं दिशा पूर्वदिशामित्यर्थः, प्रति चचाल, सविधदेशे समीपदेशे विवर्तिना व्योम्ना गमनेन कृत्वा तेन चक्रेणैव वासरमणेः सूर्यस्य रथोऽपि एकमेव चक्रं यस्य स तादृशः, शान्तिजिनचक्रस्यैकत्वादिति भावः, ख्यातः प्रसिद्धः, ध्रुवमेवमनुमिनोमीत्यर्थ // उत्प्रेक्षा // 215 // यक्षैरिति यौरधिष्ठितमधिष्ठितवित्तरक्षेस्तत् संततं दशशतीममितैः सलक्षैः / सैन्योत्थितेन रजसा ककुभां विभागानाच्छादयन्ननु ययौ जिनचक्रवर्ती // 216