SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् - अस्माच्चक्रायुध इति सुतस्याऽस्य नामाभिधानं श्रीमान् शान्तियंधित विधिवल्लोककल्पद्रकल्पः // 208 // अत्रास्मिन् शान्तिपुत्रे भगवति गर्भाधानं गर्भवासं भजति कुर्वति सति मात्रा यशोमत्या स्वप्ने समुदितेन विभाचक्रेण प्रभामण्डलेन काष्ठा दिशः अवभासयतीति तादृशं चकं निरैक्षि दृष्टमित्यस्माद्धेतोः लोकानां सकलेच्छापूरकत्वात् कल्पद्रुकल्पः कल्पद्रुमोपमः श्रीमान् शान्तिर्जिनः अस्य सुतस्य चक्रायुध इति नामाभिधानं विधिवत् सविधि व्यधित // 208 // कला-इति कलाः समभ्यस्य कलागुरोः कलाः कलाविदां मानसमापयन् मुदम् / ततः समासादितमुक्तशैशवः क्रमात् स तारुण्यभरं समासदत् // 209 // स चक्रायुधः ततो नामकरणानन्तरम् क्रमात् पूर्व समासादितः पञ्चान्मुक्तः शैशवो बाल्यावस्था येन स तादृशः किशोरः कलागुरोः कलाचार्यतः कलाः मधुराः, अपेक्षितत्वादिति भावः कलाः चतुष्पष्टिकलाः समभ्यस्य कलाविदाम् मानसं मुदं स्वकलाकौशल्यसम्पादितहर्षमापयन् तारुण्यभरं यौवनं समासदत् // 209 // नरेन्द्रेति नरेन्द्रकन्या रतिरूपसंपदः परार्ध्यसौभाग्यसमृद्धिशालिनम् / स तं धनुर्वेदनिवेद्यकौशलं, विवाहयामास पिता प्रभूत्तमः // 210 // प्रभुषु उत्तमः स पिता शान्तिजिनः परार्ययाऽपरिमितया सौभाग्यसमृद्धया शालते इत्येवं शीलम्, प्रचुरसौभाग्यवन्तम्, धनुर्वेदे निवेद्यम् वर्णनीयं कौशलं यस्य तं तादृशं तं चक्रायुधम् रतिरिव रूपसंपद्यासां तास्तादृश्यः सुरूपाः नरेन्द्रकन्याः विवाहयामास // 210 // वसुन्धरेति वसुन्धरामण्डलमस्य शासतः सतः प्रभोः शान्तिमहामहीशितुः। समासहस्रा व्यतिचक्रमुपैरुपास्यमानस्य च पञ्चविंशतिः // 211 // प्रभोरस्य शान्तिमहामहीशितुः शान्तिजिनाख्यमहानृपस्य वसुन्धरामण्डलं पृथ्वीमण्डलं शासतः सतः नृपैः उपास्यमानस्य च पञ्चविंशतिः समानां वर्षाणां सहस्राः वर्षसहस्राणि-("हायनोऽस्त्री शरल्समाः" इत्यमरकोशः, सहस्रशब्दः पुल्लिङ्गे क्लीबे च-) व्यतिचक्रमुः व्यतीयुः // 211 // ___ अथेति-. अथाऽऽयुधागारिक एत्य सत्वरं व्यजिज्ञपत् तं प्रणिपत्य कृत्यवित / त्वमायुधागारविभासिना त्विषां चयेन चक्रेण नरेन्द्र ! वयंसे // 212 // 'शा. 9
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy