________________ 64 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / ___ ततः शान्तिजिनराज्याभिषेकानन्तरं सोऽवनिपालपुङ्गवः नृपश्रेष्ठः विश्वसेनः स्वयं स्वहितमात्महितं तपोऽनुष्ठानादि समाचचार, तदेव समर्थयति-हि यतः तादृशाः विश्वसेनसदृशाः बुधाः परलोकसाधने प्रमादमालस्यं कदापि न प्रकुर्वन्ति // 204 // शुभेग्विति शुभेषु कार्येषु नृणां विहस्तता बभूव रोमाञ्चगतोऽथ कण्टकः / स भीमरूपः शिव एव विश्रुतः प्रभौ भुवं शासति शासितद्विपि // 205 // शासिता निर्मथिता वशीकृता द्विषश्शत्रवो येन स तस्मिन् जितारौ प्रभौ शान्तिजिने भुवं महीं शासति पालयति- सति नृणां शुभेषु कार्येषु पुण्यकृतेषु विमुस्तता व्यग्रता तत्परता बभूव, न तु अनिष्टेषु कार्येषु, प्रजा शुभप्रवृत्तयो जाता इत्यर्थः / “विहस्तो व्याकुलो व्यग्र"इत्यमरः / अथ तथा कण्टकः स्वनामप्रसिद्धः विन्नो वा क्षुद्रशत्रुर्वा रोमाञ्चगतः हर्षादिजन्यः रोमाञ्च एव कण्टकव्यपदेश्योऽभून्नत्वन्यः कोऽपि इत्यर्थः- "कण्टकः क्षुद्रशत्रौ रामाञ्चे च माक्षे च / (इतिविश्वप्रकाशः)। तथा भीमरूपः भयङ्कराकारः स प्रसिद्धः शिवः महादेव एव विश्रुतः प्रसिद्धः, नत्वन्योऽपि सर्वे सौम्यदर्शना अभवन्नित्यर्थः / परिसङ्ख्याऽलङ्कारः // 205 // अथदृढरथजीवच्यवनमाह दृढस्येति दृढस्य जीवः सरथस्य विच्युतो यथार्थसर्वार्थमहाविमानतः। स चक्रकस्वप्ननिवेदितागमो यशोमतीकुक्षिमभूषयत् ततः // 206 // ततः शान्तिजिने महीं शासति सति स मेघरथानुजः सरथस्य दृढस्य दृढरथस्य जीवः यथार्थात् गुणनिष्पन्ननाम्नः सर्वार्थाख्यमहाविमानतः चक्रकस्य चक्रस्य स्वप्नेन निवेदितः आगमोऽवतारो यस्य स तादृशः यशोमत्याः कुक्षिं गर्भमभूषयत् यशोमतीगर्भगतो बभूवेत्यर्थः / अजीति अजीजनत् सा तनयं नृपपिया, महौजसं लक्षणलक्षिताङ्गकम् / प्रभोः प्रतिच्छायिकयेव निर्मितं, प्रदीपतो दीपमिवाऽतिभासुरम् // 20 // सा नृपस्य शान्तिजिनस्य प्रिया यशोमती प्रभोः शान्तिजिनस्य प्रतिष्ठायिकया प्रतिबिम्बेनेव निर्मितम् प्रदीपतः प्रदीपितं दीपमिवातिभासुरम् तेजस्विनम् लक्षणैः सामुद्रिकलक्षणैः लक्षिताङ्गकम् समन्वितावयवम् महौजसं महाबलवन्तं तनयमजीजनत् // अथ तस्य नामकरणमाह गर्भाधानमिति-- गर्भाधानं भजति भगवत्यत्र मात्रा निरैक्षिस्वप्ने चक्रं समुदितविभाचक्रकाष्ठावभासम् /