________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / स्त्रीनेत्रहरंम्, तथा अगण्यानामपरिमेयानां लावण्यानां तरलत्वविशेष्याणां निवेशस्याधिष्ठानस्य सेवधिराकरः विभोः शान्तिजिनस्य रूपं स्वरूपं समताया उपमाया अतिगमविषयः, अनुपममित्यर्थः / बभूव // 20 // वसुन्धरेति वसुन्धराधीशसुतायशोमतीमुखाः सुमुख्यो जनकोपरोधतः / महोत्सवेऽतुच्छतमे प्रसर्पति प्रभुः प्रभूताः प्रथिता व्यवाहयत् // 201 // प्रभुः शान्तिजिनः जनकस्य पितुः विश्वसेनस्योपरोधतोऽनुरोधतः नतु स्वेच्छातः, अनित्ये विषयसुखे स्वस्यानीहत्वादिति भावः / अतुच्छतमे महत्तमे महोत्सवे प्रसर्पति प्रवर्त्तमाने सति सुमुख्यः (सुष्टु मुखं यासां ताः) सुन्दर्यः प्रभूताः बहव्यः प्रथिताः प्रसिद्धाः यशोमतीमुखाः यशोमतीप्रभृतीः वसुन्धराधीशसुताः राजकन्याः व्यवाहयत्परिणीतवान् // 202 // समेति समासहसेष्वथ पञ्चविंशतिप्रमेषु यातेषु निमेषवत् सुखम् / न्य,त्त राज्ये नृपविश्वसेनकः प्रतापदिक्चक्रविभासकं विभुम् // 202 // अथ विवाहानन्तरम्, पञ्चविंशतिप्रमेषु समानां वर्षाणां सहस्रेषु पञ्चविंशतिसहस्रवर्षेषु निमेषवत्क्षणमिव सुखं सुखपूर्वकं यातेषु व्यतीतेषु सत्सु नृपः विश्वसेनकः विश्वसेनः प्रतापेन दिक्चक्रस्य विभासकं प्रकाशकम् , प्रतापाक्रान्तदिङ्मण्डलं प्रभु शान्तिजिनं राज्ये न्यधत्त स्थापयामास // 202 // तवेति - तवोत्तमाङ्ग ! क्रमवन्दनात् प्रभो ! ममोत्तमाङ्गस्य सदोत्तमाङ्गता। अजायतैवेति विमृश्य राट् तदा निजोत्तमाङ्गं नमयाम्बभूव सः // 203 // प्रभो उत्तमाङ्ग ! सुरूप ! शान्तिजिन ! तब क्रमयोश्चरणयोर्वन्दनाद्धेतोर्ममोत्तमाङ्गस्य मस्तकस्य "उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रिया"मित्यमरः / सदा उत्तमाङ्गता उत्तमश्च तदङ्गमुत्तमाङ्गं तस्य भावः जिनवन्दनस्योत्तमाङ्गतातत्प्रयोजकत्वादिति भावः / अजायत एवेति, विमृश्य विचार्य स राट् राजा बिश्वसेनः तदा शान्तिजिनराज्याभिषेके निजमुत्तमाङ्गं शिरो नमयाम्बभूब // 203 // * सेति___ स विश्वसेनोऽवनिपालपुङ्गवः समाचचार स्वहितं ततः स्वयम् / न हि प्रमादं परलोकसाधने बुधाः प्रकुर्वन्ति कदापि तादृशाः // 204 //