________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। जिनेन्द्रस्य शान्तिजिनस्य वपुः अपूर्वरूपं शरीरम् शुभकर्मणा पुण्योदयेन गृहीतैः सञ्चितैः मृदुभिः कोमलैः सुवर्णस्य केतक्या पलाशस्य चेव सारैः प्रधानैः प्रशान्तरागकृद्भिः परमाणुभिः विनिर्ममे रचितम् ध्रुवं सत्यमेतत् पक्षान्तरेऽनुपपत्तिमाह अन्यथा प्रकारान्तरेण निर्माण तत् सुगन्धि पीतं मृदु च नैव भवेत् ? कारणगुणाः कार्यगुणानारभन्ते इति न्यायादिति भावः // 19 // हृदीति हृदि स्फुरन्निर्मलबोधसङ्गमादिवाऽवदाते अपि मांसशोणिते / जिनस्य कण्ठोत्पलगन्धवासनाश्रयादिव श्वासभरोऽतिसौरभः // 198 // __ जिनस्य शान्तिजिनस्य मांसशोणिते अपि हृदि स्फुरतः प्रकाशं उन्मेषं गच्छतः निर्मलस्य बोधस्य ज्ञानस्य सङ्गमादिव अवदाते निर्मले शुक्ले वा / 'अवदातः सितो गौरः' इत्यमरः तथा जिनस्य श्वासभरः श्वासपरम्परा कण्ठस्थितस्योत्पलस्य कण्ठरूपस्योत्पलस्य वा गन्धस्य परिमलस्य वासनायाः सङ्गमणस्याश्रयात्प्राप्तेरिवातिसौरभोऽतिसुगन्धिः “संसर्गजाः दोषगुणा भवन्ती"तिन्यायादिति भावः // 198 // रोगा इति - रोगा वैद्यविशारदैनिगदिताः सर्वेऽप्यजीर्णोद्भवा, बहाहारभवं तदेव स तु नाऽऽहारः समालोक्यते / नीहारोऽपि न यस्य चर्मनयनै रोगाः कुतस्तत्पभोयद्वा विस्मयमादधाति चरितं सर्व हि पुण्यात्मनाम् // 199 // वैयेषु विशारदैनिपुणैः सर्वेऽपि रोगा अजीर्णोद्भवाः आहारापक्वताजाताः निगदिताः कथिताः तदजीणं च बह्वाहारभवम् बुभुक्षाधिकाऽऽहारजातम् स तु आहारः नीहारः मलमूत्रविसगश्च चर्मनयनैः मत्यैः यस्य जिनस्य न समालोक्यते तस्य - प्रभोः जिनस्य रोगाः कुतः ? नैव कुतोऽपि, अजीर्णादेस्तत्कारणस्य बह्वाहारादेश्चानवलोक्यमानत्वादितिभावः / नन्वेतदाश्चर्यमिति चेदेवमेतदित्याह, यद्वा अथवा हि पुण्यात्मनां सर्वं चरितं प्रवृत्तिः न तु आहाराद्यात्मकमेव विस्मयमाश्चर्यमादधाति करोति अचिन्त्याद्भुतचरिता महात्मान इति भावः // 199 // इतीति इति त्रिलोकीवनिताविलोचनोन्मदिष्णुरोलम्बकुलाम्बुजप्रभम् / अगण्यलावण्यनिवेशसेवधिर्वभूव रूपं समताऽतिगं विभोः // 20 // इत्युक्तवर्णनानुसारेण त्रिलोक्याः वनितानां स्त्रीणां विलोचनानि नेत्राण्येवोन्मदिष्णूनि उन्मादशीलानि रोलम्बानां भ्रमराणां कुलानि तेषां कृते अम्बुजं कमलं तद्वत्प्रभातीति तादृशं सकल