________________ wwwwwwwwwwwwwwmmmmmmm आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् वेदयति ज्ञापयति श्रीवत्सस्य शान्तिप्रभोरुरसि तच्चिह्नस्य विष्णोरुरसि स्थितत्वात्सौभाग्यसूचकत्वाच्चेतिभावः / शिरसः जिनस्य मस्तकस्य उपरि स्थितः श्रिया लक्ष्म्या देदीप्यमानः ऊष्णीषो पुरुषोत्तमत्वं समावेदयति अन्यपुरुषाणां तदभावादिति भावः उत्तमा एव तद्धारयन्ति / ननु किमिति सर्वमेव वस्तु उत्तमत्वमेव सूचयतीति चेद्विशिष्टपुण्यमेवात्र कारणमित्याह-महताम् पुण्यानामुदयेन पुण्यप्रभावेण किं वस्तु प्रसिद्धेः ख्यातेः बीजं कारणं न भवेत्, अपि सर्वमपि ख्यातिबीजं भवेदित्यर्थः // 19 // दृष्टेति दृष्ट्वा शान्तेनिरुपममिदं केशपाशं चमर्यः, संभाव्यैतद् व्यपगतफलं स्वस्य बालमियत्वम् / लज्जाऽऽक्रान्ता हिमगिरिभुवं संश्रयन्ते स्म नूनं, युक्तं स्त्रीत्वे व्यवसितमिदं मानिनी सा हि जातिः // 195 // शान्तेः शान्तिजिनस्य निरुपममसाधारणमिदं केशपाशं दृष्ट्वा चमर्यः स्वस्य एतत्प्रसिद्ध बालप्रियत्वम् सर्वोत्तमत्वाद्धेतोः जातं केशस्नेहं व्यपगतफलम् , सर्वोत्तमत्वरूपफलहीनं सम्भाव्य विचार्य लज्जया स्वपराजयत्रपयाऽऽक्रान्ता युक्ता सती हिमगिरिभुवं हिमाचलप्रदेशं संश्रयन्ते स्म नूनम् ध्रुवमेतत् / किञ्च स्त्रीत्वे सती इदं दूरगमनरूपं व्यवसितं प्रवृत्तिः युक्तमुचितम् हि यतः सा जातिः स्त्रीजातिः मानिनी मानवती एवञ्च मानभङ्गसम्भवे तदक्षणाय दूरगमनमुचितमेवेति भावः उत्प्रेक्षाऽर्थान्तरेण पुष्टा // 195 // सुदुरिति .. . सुदुर्जयं वाडवजातवेदसा प्रतापराशिं दधतोऽपि यद्वपुः / जिनेशितुः स्वेदलवैर्विवर्जितं विचित्रमन्यत् किमिवाऽभिधीयताम् // 196 / / वाडवजातवेदसा वडवानलेन सुदुर्जयमत्युग्रत्वादनभिभवनीयं प्रतापराशिम् तापाधिक्यमथ च प्रभावातिशयम् दधतः अपि जिनेशितुः शान्तिजिनस्य यद्यतः वपुः शरीरम् स्वेदलवैः धर्मसलिलैः विवर्जितम्, अतः अन्यत् विचित्रमतिशयं किमिव केन प्रकारेणाभिधीयताम् ? वर्ण्यताम् जिनातिशयस्यानिर्वचनीयत्वात् जिनस्य न स्वेद इत्यागमः / अत्र स्वेदहेतौ सत्यपि तापे तदभाव इति विरोधः अर्थान्तरेण च विरोधपरिहार इति विरोधाभासोऽलङ्कारः / / 196 // वपुरिति वपुजिनेन्द्रस्य सुवर्णकेतकी-पलाशसारैर्मृदुभिर्विनिर्ममे / ध्रुवं गृहीतैः शुभकर्मणाऽन्यथा, सुगन्धि पीतं मृदुनैव तद् भवेत् // 197 / /