________________ 80 60 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / जिनपतेः शान्तिजिनस्य आस्यम् मुखं तद्रूपं पीयूषसिन्धुः अमृतार्णवः तत्र सुवचनं मधुरत्वादमृतमिव यस्य तादृशः द्विजानां दन्तानामाली पङ्क्तिः "दन्तविप्राण्डजाः द्विजा" इत्यमरः मौक्तिकानीव, बिम्बाभौ बिम्बतुल्यावोष्ठौ रक्तत्त्वात् प्रवालस्य मणिविशेषस्य व्रततिः लतेव "वल्ली तु व्रततिलेते" त्यमरः किशलयं पल्लवमिव च तो तादृशौ श्मश्रु हनुगण्डादिस्थितलोमसमूहः नीलत्वात् तालीनां भूम्यामलकीवृक्षाणां वनानीव शमाख्यस्य सलिलगजस्य जलहस्तिनः शुण्डादण्डानुकारा शुण्डादण्डतुल्या नासा एव नासिकाऽपि विराजन्ती चक्षुषी वीचिप्रपञ्चः तरङ्गविस्तारः यस्य तादृशः हास्यं धावल्यात् डिण्डीरस्य फेनस्य पिण्ड इव यत्र स तादृशः “डिण्डिरोऽब्धिकफः फेन" इत्यमरः एतादृशः पीयूषसिन्धुः जयति सर्वोत्कर्षेण वर्तते / 191 / समग्रेति-- समग्रजैवातृकगोत्रमण्डले जिनस्य जाने मुखचन्द्रमुद्गतम् / ... अवाप्तसाम्राज्यपदं किमन्यथा कपोलचन्द्रौ कुरुतोऽस्य सेवनम् ? // 192 // समग्रे सकले जैवातृकाणाम् कलानिधीनामब्जानां वा "अब्जौ जैवातृकः सोमो ग्लौ मृगाङ्कः कलानिधि" रित्यमरः / गोत्रे कुलरूपे मण्डले राष्ट्रे उद्गतम् उदयं गतं जिनस्य शान्तिजिनस्य मुखचन्द्रम् अवाप्तं साम्राज्यस्य पदं स्थानं येन तादृशं राजानं जाने उत्प्रेक्षे, राष्ट्रे राजस्थितिरुचिरैवेति भावः तत्र हेतुमाह-अन्यथा राजत्वाभावे सति अस्य जिनमुखचन्द्रस्य कपोलौ एव चन्द्रौ किं कुतः सेवनं कुरुतः ? राजानमेव हि सेवथन्ति इति भावः उत्प्रेक्षा // 192 // यदिति यदर्धचन्द्रेण ललाटपट्टकं ससर्ज धाता जिनचक्रवर्तिनः / कदापि ते नैव न पूर्णमण्डलः शशी समालोक्यत एष चैषकः // 193 // धाता ब्रह्मा जिनचक्रवर्तिनः शान्तिजिनस्य ललाटः पट्टकमिव तम् अर्धचन्द्रेण चन्द्रस्यार्धभागेन यद्यतः ससर्ज निर्ममौ, ते नैव हेतुनाऽर्थस्यापहारहेतुना एषकः एष शशी चन्द्रः कदापि पूर्णमण्डलः समग्रशरीरः नैव समालोक्यते, अर्धचन्द्रसदृशः जिनकपाल इति भावः // 193 // श्रीवत्स इति श्रीवत्सः पुरुषोत्तमत्वमुरसि स्थास्नुः समावेदयत्याज्ञामात्रवशीकृताखिलजगत् श्रीशान्तनाथप्रभोः। ऊष्णीषोऽप्युपरिस्थितश्च शिरसो देदीप्यमानः श्रिया, पुण्यानामुदयेन किं न महतां बीजं प्रसिद्धर्भवेत् / / 194 // आज्ञामात्रेण वशीकृतानि अखिलानि जगन्ति येन तादृशस्य श्रीशान्तिनाथग्रंभोः उरसि वक्षसि स्थानुः स्थितः श्रीवत्सः तदाख्यं चिह्न पुरुषोत्तमत्वं नरश्रेष्ठत्वमथ च विष्णुत्वम् समा