________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। __ गुणाश्रयं गुणयुक्तं सामुद्रिकादिशुभलक्षणयुक्तं च कायस्य पूर्वो भागः स एव तं पूर्वकायकम् कथं न नौमि स्तौमि तथा उत्तरकायकं मध्योर्ध्वकायकं गुणाश्रयं कथं वा न नौमि गुणाश्रयत्वादुभावेव स्तुत्यौ, समत्वेनैकतरपक्षपाते कारणाभावादिति भावः, इत्युक्तप्रकारया यथार्थवादस्य अथानुकूलस्तुतेः व्ययस्य लोपस्य चिन्तया इव एकस्यैव स्तुतौ गुणी सर्वोऽपि स्तुत्य इति यथार्थवादो लुप्यते इति भावः / प्रभोः शान्तिजिनस्य मध्यः कटिप्रदेशः कृशतां तनुत्वं समाश्र- . यत् / चिन्तितो हि कृशो भवत्येवेतिभावः / जिनस्य मध्यः कृशः इत्यर्थः // 184 // . अपायीति अपायि लावण्यरसो वधुजनै-न नाभिकपस्थित एव यैः प्रभोः। अपायि तेषां न यदङ्गतृष्णयो-चितं तदेवाद्भुतमन्यथा परम् // 185 // यैः वधूजनैः भार्यावर्गः प्रभोः शान्तिजिनस्य नाभिः गभीरत्वात्कूप इव तत्र स्थितः लावण्यं रस इव स न अपायि पीतः तेषां वपूजनानाम् अङ्गतृष्णया शरीरसङ्गेच्छया यत् न अपायि विनष्टम् तदुचितमेव, नाभिलावण्यरसाऽपाने शेषाङ्गलावण्यरसे तृष्णासत्त्वमुचितमेव, नाभिलावण्यरसपाने तु तन्मात्रतस्तृप्तत्वादितरतृष्णानिवृत्तिरपि कञ्चित्सम्भाव्यते, अतृप्तस्य तु सा नैव निवर्तते इति भावः तदाह-अन्यथा नाभिलावण्यरसपानेऽपि तत्तृष्णासत्त्वं परमत्यन्तमद्भुतमाश्चर्यम्, तृप्तस्य पुनस्तृष्णाऽयोगादिति भावः // 185 // इमानीति इमानि रोमाणि न भर्तुरङ्गके, विभान्ति किं नाम नु संविदकरा / कषायसंवासितमातृमानस-प्रसङ्गतः श्यामलकान्तिभागिनः ? // 186 // भर्तुरीशस्य शान्तिजिनस्याङ्गकेऽङ्के इमानि रोमाणि न, विभान्ति किन्तु संविदां ज्ञानानामकुराः प्ररोहाः, नाम नु इत्युत्प्रेक्षायाम् ननु तर्हि तज्जानां निर्मलत्वादेषां कृष्णता कथमिति चेत्तत्राह-कषायैः रागाथैः संवासितस्य सम्बद्धस्य मातुः मानसस्य गर्ने प्रसङ्गतः सम्बन्धतः श्यामलकान्तिभागिनः श्यामाः इत्यर्थः “संसर्गजा दोषगुणा भवन्ती" त्युक्तेरिति भावः // 186 // विशालेति विशालवक्षःस्थलकैतवस्फुरत्कपाटविन्यासनसंनिबन्धनात् / सनातनं वित्तिरमानिकेतनं जिनाधिनाथस्य मयाऽनुमीयते // 187 // मया कविना जिनाधिनाथस्य शान्तिजिनस्य विशालस्य वक्षःस्थलस्य कैतवेन च्छलेन विस्फुरतः दृढस्य शोभमानस्य च कपाटस्य विन्यासनस्य स्थापनस्य संनिबन्धनादादरणात् सनातनं शाश्वतं वित्तिरमायाः ज्ञानलक्ष्म्याः निकेतनं गृहमनुमीयते, कपाटस्य गृहे एवोपयोगात्, कपाटवद्विशालवक्षा जिन इत्यर्थः // 187 //