________________ 57 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / भुजीति भुजिक्रियाऽनन्तरमेव नौ स्पृशन्, प्रियं समासादयते न चान्यथा / इतीव गुप्ते स्वसमाधिमास्थिते जिनस्य भातः स्म सदैव जानुनी // 181 // भुजिक्रियायाः भोजनादनन्तरम् नावावा जानुनी स्पृशन्नेव प्रियमिष्टं समासादयते प्रानोति अन्यथा न च नैव, भोजनानन्तरम् जानुस्पर्शस्यारोग्यकरत्वमिति वैया इति भावः / इतीवेति हेतोरिव गुप्ते न तु उन्नते, अत एव सदैव स्वसमाधि स्वस्थतामास्थिते, स्थिरे इति यावत् / जिनस्य शान्तिजिनस्य जानुनी भातः स्म // 181 // रम्मेति रम्भास्तम्भा न हि जिनपतेः साम्यमूर्वोः श्रयन्ते, संसाराब्धेस्तरणकरणव्यापृतस्य स्तवोऽपि / निश्चैतन्यात् सुकृतविहितौ विस्फुरच्छीतकत्वाद् निःसारत्वात् परिमितफलार्थप्रभूतित्ववृत्तेः // 182 // रम्भास्तभाः कदलीकाण्डाः स्वतोऽपि स्वभावत एव संसाराब्धेः तरणकरणव्यापृतस्य उद्धारकस्य जिनपतेः शान्तिजिनस्य ऊर्वोः सक्थ्नोः साम्यं तुल्यतां नहि नैव श्रयन्ते, तत्र हेतुमाहसुकृतस्य विहितौ विधाने निश्चैतन्यात् जडत्वात् , तथा विस्फुरन् प्रकटः शीतः शीतगुणः, यस्य तद्भावस्तत्त्वात्, अतिशीतत्वादित्यर्थः, तथा निःसारत्वादन्तर्बलरहितत्वात् तथा परिमितफलरूपो योऽर्थः, तत्प्रभूतित्ववृत्तेः तत्कारणत्वात् रम्भाफलानि हि परिमितान्येव भवन्तीति भावः, जिनोरू च सचेतनौ अनुष्णाशीतौ किञ्च ससारौ दृढौ अपरिमितफलौ चेति भावः / व्यतिरेकः // 182 // ... अहमिति अहं कलत्रं सहचारि सर्वदा, यथा कलत्राण्यपराणि नो तथा। इति स्वसंबद्धमहाभिमानतः, प्रभोः कलत्रं पृथुतामगाहत // 183 // ____ अहं सर्वदा सहचारि सहवासशीलं कलत्रं श्रोणिः यथा अपराणि स्त्रीरूपाणि कलत्राणि, सर्वदा न सहचारीणि तथा नो नैव, इत्यपरकलत्रापेक्षया स्ववैशिष्टरूपात् स्वसम्बद्धात् स्वस्थितान्महतोऽभिमानतः गौरवतः प्रभोः शान्तिजिनस्य कलत्रं कटिः पृथुतां विपुलतामगाहत "अथ कटः कटिः श्रोणिः कलत्र" मितिहैमः / जिनस्य श्रोणिः पृथुलेति भावः // 183 // गुणेति गुणाश्रयं नौमि न पूर्वकायक, कथं कथं वोत्तरकायकं तथा ? __ यथार्थवादव्ययचिन्तया प्रभोरितीव मध्यः कृशतां समाश्रयत् // 184 // शा. 8 .