SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। सन्मानप्रतिपत्तये समतया संवाहनाय ध्रुवं, क्लप्ता इत्यपि तर्कयामि महतां सर्वत्र साम्यं यतः // 177 // नेतुः ईशस्य शान्तिजिनस्य द्वयोरंध्रयोः चरणयोः मृणालवन्मृदुलाः कोमलाः दशाङ्गुल्यः विबभुः शुशुभिरे दशसङ्ख्यंत्वमुत्प्रेक्षते आनन्तुं युगपत्सहैव समासेदुषामागतानाम् . कल्पाधीशानां मरुत्वतां शक्राणाम् समतया यथासङ्ख्यतुल्यतया ये सन्मानं प्रत्यायनाय संवाहनाय सेवनाय क्लृप्ताः धृताः ध्रुवम् नात्र सन्देहः कल्पाधीशशक्राणां दशसत्यत्वादिति भावः / इतीत्थमपि तर्कयामि संभावयामि समतया समानप्रतिपत्तिं समर्थयति -यतो हेतोर्महतां सर्वत्र साम्यं तुल्या वृत्तिः न तु मुखप्रेक्षिकयेति भावः // 177 / / प्रमादेति प्रमादभारेण भवाम्बुधौ पतद् गृहस्थनिर्ग्रन्थजनद्वयस्य सत् / ... . अजस्रमालम्बनमेव तत्परं पदाम्बुजद्वन्द्वमभूज्जिनेशितुः // 178 // प्रमादस्य भारेणातशयेन भवाम्बुधौ पततः जन्मजरामृत्युमनुभवतः गृहस्थस्य निर्ग्रन्थस्यानगारस्य जनस्य तद्वयस्य अजस्रं सततमेव सत् फलसाधकमालम्बनं पतननिवारणे आधारभूतसाधनम् परं सर्वोत्कृष्टं तज्जिनेशितुः शान्तिजिनस्य पदाम्बुजद्वन्द्वमभूत् , तच्चरणाश्रितानां भवान्मुक्तिर्भवतीति भावः // 17 // प्रकाशेति प्रकाशभावं कलयिष्यति प्रभो रहो ! चतुर्धा समुदाय सन्ततिः / इतीव तद्गुल्फचतुष्टयं स्वयं निगूढभावं बिभराम्बभूव च // 179 / / जिनस्य गुल्फा गुप्ताः इत्याह अहो इति हर्षोद्गारे प्रभोः शान्तिजिनस्य चतुर्धा चतुष्प्रकारा / समुदायसन्ततिः साधुसाध्वीश्रावकश्राविकासङ्घः प्रकाशभावं ख्याति कलयिष्यति प्राप्स्यतीतीव हेतोः तस्य जिनस्य गुल्फचतुष्टयं पदग्रन्थिविशेषः स्वयं निगूदभावं गुप्ततां बिभराम्बभूव दधौ, गुल्फगूढता सामुद्रिकलक्षणमिति भावः // 179 // . अभूवेति अभूव भूवल्लभवन्धसत्पदाऽऽश्रयौ स्त्रियावप्यतिसारसारतः / इतीव जो पृथुले जिनेशितुः, शुभे सुवृत्ते सुभगे बभूवतुः॥१८०॥ स्त्रियौ स्त्रीलिङ्गशब्दप्रयोज्ये अपि अतिसारसारतः अत्युत्तमत्वतः भूवल्लभैः नृपैः वन्द्यौ यौ सत्पदौ तदाश्रयौ अभूव भवेव इतिमती इव जिनेशितुः शान्तिजिनस्य जो पृथुले विशाले सुवृत्ते गोलाकारे सुभगे सुन्दरे शुभे सामुदिकलक्षणवत्त्वाच्छुभसूचके च बभूवतुः / जछाशब्दस्य / स्त्रीलिङ्गत्वादियमुत्प्रेक्षा // 180 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy