________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् _ 55 वजः सङ्घः अनिशं सततमेव विचित्रैः नानाविधैः रूपैः लोकालक्ष्यैः कृत्वा विभोः शान्तिजिनस्य मनसः अनुरूपेणानुसारेण विचेष्टते प्रवर्तते स्म // 173 // इतीति-- इति क्रीडाः कुर्वस्त्रिदशनिचयः सार्धमुचिताः, पितृणामानन्दं प्रतिसमयमेवोपजनयन् / क्रमाच्चत्वारिंशद्धनुरनुगताङ्गपमितिमानवापत् तारुण्यं त्रिभुवनगुरुमैरुमहिमा // 174 // इत्युक्तप्रकाराः उचिताः स्वयोग्याः क्रीडाः त्रिदशानां देवानां निचयैर्वृन्दैः सह कुर्वन् , तथा प्रतिसमयमनुक्षणमेव पितॄणां जनकादीनामानन्दमुपजनयन् मेरुरिवात्युच्चो महिमा यस्य स महामहिमा त्रिभुवनगुरुः शान्तिजिनः क्रमात् चत्वारिंशद्वनुर्भिः अनुगता तय॑सदृशदैयोपलक्षिता या अङ्गस्य प्रमितिः प्रमाणं तद्वान् सन् तारुण्यम् यौवनम् अवापत् // 174 / / अपारेति अपारसिन्दूरपरागपूरिते जगत्त्रयस्याऽपि रमा स्वमूर्धनि / न्यधत्त पादद्वितयं यदीशितू रसात् तदा ताम्रतलं बभूव तत् // 175 / / जगत्त्रयस्य त्रिभुवनस्यापि रमा लक्ष्मीः अपारैरपरिमतैः सिन्दूरपरागैः सिन्दूरचूर्णैः पूरिते स्त्रियः सौभाग्यसूचनाय सिन्दूरं मस्तकैः कुर्वन्तीति भावः स्वमूर्धनि निजमस्तके यद्यतः तदा प्रभोस्तारुण्ये ईशितुः शान्तिजिनस्य पादद्वितयम् रसादनुरागान्न्यधत्त स्थापितवती, तस्य पादद्वितयाश्रिताः सर्वलक्ष्म्य इति भावः तत्ततो हेतोः तज्जिनपादद्वितयं ताम्रतलं रक्तवर्णतलं बभूव जिनपादयोः रक्तवर्णताऽतिशयोक्त्या समर्थिता // 175 / / प्रणति __प्रणम्रगीर्वाणगणाग्रणीशिरोमणी मणीघर्षणतोऽरुणा नखाः / विभोदधन्ते स्म पदोदेशाऽमला दिशां दशानामपि दर्पणश्रियम् // 176 // प्रणम्रानां प्रणामं कुर्वताम् गीर्वाणगणाग्रणीनां शक्राणां शिरोमणीनां मुकुटानां मणीनां घर्षणतः पुनः पुनः स्पर्शतः अरुणाः रक्तवर्णाः विभोः शान्तिजिनस्य पदोः चरणयोरमला दशनखाः दशानां तत्सङ्खयकानामपि दिशां दर्पणश्रियं दधन्ति स्म प्रभोर्नखाः रक्तवर्णाः दर्पणवदमलाश्चेति // 176 / / अङ्गुल्य इति अङ्गुल्यो विवभुम॑णालमृदुला नेतुर्दशांघ्रयोर्द्वयोः, कल्पाधीशमरुत्वतां युगपदाऽऽनन्तुं समासेदुषाम् /