________________ 54 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / स शान्तिजिनः विभूषणानाम् उद्भासिकां शोभिकां देहकान्तिं बिभर्तीति स तादृशः सन् कदापि क्वचित्समये पितुर्विश्वसेनस्य जनन्या अचिरायाश्च परिच्छदस्य परिजनस्य हृदये आस्ये मस्तके च तिष्ठन् भवे संसारेऽपि कैवल्यवत् मोक्षवत् “मुक्तिः कैवल्यनिर्वाणे"त्यमरः सुखं ततान दधार चकार, बालालिङ्गने पित्रादीनामनुपम आनन्द् इति भावः // 169 // कदेति कदाचिदाभाषित एव नोत्तरं ददावकिञ्चिज्ज्ञ इव स्थितः प्रभुः। कदाचन प्रौढविदग्धवद् गिरः प्रवर्तयामास सभाऽनुरब्जिकाः // 170 // कदाचिदाभाषितः आलपित एव अकिञ्चिज्ञः अज्ञ इव स्थितः प्रभुः शान्तिजिनः उत्तरं प्रतिवचनं न ददौ विनयभावादिति भावः कदाचिच्च स्वसाधारणत्वमपि प्रदर्शितवानित्याह, कदाचन प्रौढविदग्धवत् प्रखरपटुवासभाऽनुरञ्जिकाः गिरः वाचः प्रवर्तयामास जगौ 170 // .. विभोरिति विभोः समासाद्य पदं वसुन्धरा न रत्नगर्भत्वमनर्थकं दधौ . त्रिविष्टपस्त्रीसुभगत्वगर्वहृद् बभूव सातेन च तेन किन्तु सा // 171 // वसुन्धरा पृथिवी विभोः शान्तिजिनस्य चलनादौ पदं तत्स्पर्श समासाद्य अनर्थकम् मृषार्थकं स्नगर्भत्वं न पृथिव्या रत्नगर्भेत्यपरं नामेति भावः / दधौ, जिनपदो रत्नतुल्यत्वादिति भावः / किन्तु सा पृथिवी तेन शान्तिपदरूपेण-सातेन शर्मलाभेन सौभाग्येन वा त्रिविष्टपस्त्रीणां देवीनां सुभगत्वगर्व सौभाग्याभिमानं हरतीति तादृग्बभूव / तासां तादृशसातलाभाभावादिति भावः // 171 // व्यलोकीति-- व्यलोकि लोकैः किल काकपक्षभृद यदा तदाऽप्युच्छ्वसितं स्वचेतसा। प्रभुः स च स्तूयत एव यः समो, मरालपक्षेऽपि च काकपक्षके // 172 // यदा काकपक्षभृद् संस्कृतकचविशेषधारकः प्रभुः लोकैः व्यलोकि किल तदा लोकैः स्वचेतसा उच्छ्वसितं हृष्टमपि, तथा मरालस्य हंसस्य पक्षे काकस्य पक्षके चापि समः तुल्यादरः स प्रभुः, रागादिहीनत्वादिति भावः, स्तूयते एव च, समदृष्टित्वादिति भावः // 172 // यदेवेति-- यदेव यत् क्रीडनमैहत प्रभुः सुरेन्द्रशिष्टया त्रिदशैः समर्पि तत् / विचित्ररूपैरनिशं सुरबजो मनोऽनुरूपेण विभोविचेष्टते // 173 // प्रभुः शान्तिजिनः यदा यदेव क्रीडनं क्रीडासाधनमैहतैच्छत्, सुरेन्द्रस्य शिष्ट्या आज्ञया त्रिदशैर्देवैः तदैव तत्क्रीडनं समर्पि, जिनपाचे सर्वदैव सुराणां सत्त्वादिति भावः तदेवाह-सुराणां