________________ 53 53 www मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् गुणैरितिगुणैः प्रवृद्धोऽपि सुधांशुनिर्मलैः स बाललीलाः कलयन् व्यराजत / विचेष्टितं चित्त्रयभासिनोऽपि यद विभासते तद् न परस्य वा कथम् ? // 16 // स शान्तिजिनः सुधांशुः चन्द्र इव निर्मलैः गुणैः कृत्वा प्रवृद्धः ज्यायानपि बाललीलाः कलयन् कुर्वन् व्यराजत नितरामशोभत, तदेव समर्थयन्नाह-यद्विचेष्टितं बालललितं परस्य सामान्यबालकस्याऽपि विभासते ज्ञानत्रयेण भासिनः विराजमानस्य जिनस्य कथं न ? अपि तु विभासत एव // 166 // उत्तान इति- . उत्तानो मणिपालने मुकुरवच्छेते कुमारः स तद्, यत् प्राप्नोति निरन्तरं किल पुमानुत्तानशायी बलम् / यद्वाऽऽवेदयतीव दुर्गतिरधः क्षिप्ता मया मन्मुखप्रेक्षाकाङ्क्षणदक्षिणैकमनसां पुंसां स पुण्यात्मनाम् // 167 / / कुमारः स शान्तिजिनः तत्ततो हेतोः मणिनिर्मिते पालने पालनासने मुकुरः दर्पण:"दर्पणे मुकुरादर्शी" इत्यमरः / स इवोत्तानः ऊर्ध्वमुखः शेते स्म'कुत इति यत्तत्राह-यद्यत उत्तानशायी पुमान् निरन्तरं बलं प्राप्नोति किल, ननु तस्य बलस्य स्वयं सिद्धत्वात्किमुपचारेणेति चेत्तत्राह-यद्वा स जिनः मम मुखस्य प्रेक्षायाः दर्शनस्य काङ्क्षणेऽभिलाषे दक्षिणमुन्मुखावलोनैकोत्कण्ठितचेतसां पुण्यात्मनां पुसाम् दुर्गतिः मया जिनेन अधः नीचैः क्षिप्ता विनाशिता इत्यर्थः इतीत्थमावेदयति ज्ञापयतीव उत्तानशयनस्यैव जातके सम्भवादिति भावः // 167 // . दिनेति दिनाधिनाथोऽपि करप्रसारणं समाचरंस्त्र्यस्यति सैहिकेयतः / इतीव विश्वत्रितयाभयप्रदः प्रबद्धमुष्टिः समजायत प्रभुः // 168 // अथ बालसुलभमुष्टिबद्धतामुत्प्रेक्षते दिनाधिनाथः सूर्योऽपि करप्रसारण किरणप्रसारणं सामाचरन् कुर्वन्, अथ च पाणिप्रसारणं कुर्वन् सैहिकेयतः राहुतः “तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुद" इत्यमरः व्यस्यति बिभेति ग्रासहेतोरिति भावः, इति हेतोरिव विश्वत्रितयस्याभयप्रदः अहिंसाधुपदेशनादिनेति भावः / प्रभुः शान्तिजिनः प्रबद्धमुष्टिः समजायत // 168 // कदापीति कदापि तिष्ठन् हृदयाऽऽस्यमस्तके पितुर्जनन्याश्च परिच्छदस्य च / __विभूषणोद्धासकदेहकान्तिभृद् भवेऽपि कैवल्यसुखं ततान सः॥१६९॥