________________ 52 wwwwwww श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / षष्ठीति षष्ठीजागरणोत्सवं व्यरचयत् श्रीविश्वसेनो नृपः, स्वर्णालङ्कतिपट्टसूत्रवसनैः सर्वाश्च संतोषयन् / गेहे यस्य समुदगतो जिनपतिः कल्पद्रुमो जङ्गमः, को वा विस्मयमातनोति सुमतिर्दानेन तस्याऽधिकम् // 163 // श्रीविश्वसेनो नृपः स्वर्णालङ्कृतिभिः पट्टसूत्राणां क्षौमाणां वसनैर्वस्त्रैश्च सर्वान् यथेष्टदानतः संतोषयन् निर्याचनं कुर्वन् षष्ठयां जन्मनः षष्ठीतिथौ जागरणोत्सवं च व्यरचयत् , तादृशदाने मृषोद्यतां परिहरनाह- यस्य जनस्य गेहे जङ्गमः कल्पद्रुमः सकलेच्छापूरकत्वात् तत्तुल्यः जिनपतिः समुद्गतोऽवतीर्णः, तस्य जनस्य अधिकं लोकाधिकं यथास्यात्तथा दानेन कर्मणा को. वा सुमतिः मर्मज्ञः विस्मयमातनोति आश्चर्यं करोति ? न कोऽपीत्यर्थः / तादृशमहामहिमप्रभावान्न किमपि तस्य दुष्करमिति न किमपि आश्चर्यकारणमिति भावः // 163 // अथजिननामकरणमाह गर्भेति गर्भस्थेऽप्यशिवानि शान्तिमगमन् येनाऽत्र सर्वाण्यपि, पोचे तज्जनकेन सोऽपि भगवान् श्रीशांतिरित्याख्यया / संबोध्यैव महाजनं निजगिरा नाम्नो विधानोत्सुकं, प्रत्याय्य स्वसुवासिनीजनमपि प्राप्ते दिने द्वादशे // 164 // द्वादशे दिने प्राप्ते, जन्मदिनापेक्षयेतिभावः, “एकादशे द्वादशे वाऽहनि पिता नाम कुर्यादि"त्युक्तेरिति भावः / तस्य जिनस्य जनकेन पित्रा विश्वसेनेन निजगिरा स्ववचसा नाम्नः विधाने करणे उत्सुकं जातोत्कण्ठं महाजनं सम्बोध्याभिमुखीकृत्य स्वसुवासिनीजनमपि प्रत्याय्यज्ञापयित्वा, सर्वानुमतेनेत्यर्थः, अत्र बाले गर्भस्थेऽपि सर्वाण्यपि अशिवानि अशर्मकराणि ईती: येन हेतुना शान्ति विनाशमगमन् , ततो हेतोः स भगवानपि जिनः शान्तिरित्याख्या प्रोचे // 164 // पिबन्निति पिबन् निजाङ्गुष्ठमनारतं प्रभुविंडोजसा संक्रमितामितामृतम् / अनेकधात्रीभिरनेकखेलनैः प्रपाल्यमानो वधे तमां क्रमात् // 165 // प्रभुः शान्तिजिनः बिडौजसा इन्द्रेण सङ्क्रमितं सञ्चारितममितममृतं यस्मिन् तादृशं निजाङ्गुष्ठमनारतं सततम् न तु जननीस्तन्यमपि पिबन् अनेकधात्रीभिः अनेकखेलनैः क्रीडनकैः कृत्वा प्रपाल्यमानः क्रमाद्ववृधे तमाम् // 165 //