________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / प्रप्साधनविधावुपार्जने न्यस्ताशयानां तत्परमनसाम् , अवदातयशसामुज्वलयशसां भव्यानामुप्तानि रोपितानि बीजानि व इव, ध्रुवमित्युत्प्रेक्षायाम् // 158 // त्वमेवेति त्वमेव नाथाऽसतपात्रमेककः, परं गुणानामपि संपदामपि / इति ब्रुवाणा इव नागराङ्गनाः, समीयुरत्राऽक्षतपात्रसंयुताः // 159 // * नाथ ! जिन ! एककः एकाकी त्वमेव नत्वन्योऽपीत्यर्थः सम्पदा श्रीणामपि गुणानामपि च परं सर्वोत्कृष्टमक्षतपात्रमविकलभाजनमितीत्थं ब्रुवाणाः सूचयन्त्य इव अक्षतानां तण्डुलादीनां पात्रेण भाजनेन संयुताः सहिताः नागराङ्गनाः अत्र जिनसमीपे समीयुराजग्मुः मङ्गलार्थमिति शेषः // 159 // विभो ! इति विभोः विधातासि समानि मातृकामुखानि शास्त्राणि जिनेति पण्डिताः। तदापठच्छात्रकुलैरलंकृता, अदीदृशन्नेत्य च सूतमातृकाः // 160 // विभो ! जिन ! समानि सकलानि मातृकामुखानि त्रिपदीप्रभृतीनि शास्त्राणि विधाता उपदेष्टा असीति ब्रुवन्त इव पठद्भिः छात्रकुलैरलङ्कृताः समन्विताः पण्डिताः एत्यागत्य तदा सूतमातृकाः जातकं तन्मातरञ्चादीदृशन् // 160 // दिनोदेति दिनोदयेऽस्मै प्रभवे दिनेशिता, दिने तृतीये जनकेन दर्शितः / प्रभाकरत्वेन समानयोरपि, द्वयोर्विशेष महसोः परीक्षितुम् // 161 // जनकेन पित्रा विश्वसेनेन तृतीये दिने जन्मनस्तृतीयदिवसे दिनोदये प्रातःकाले अस्मै प्रभवे जिनाय दिनेशिता सूर्यः प्रभाणाम् आकरत्वेन करत्वेन च समानयोस्तुल्ययोरपि द्वयोः प्रभाकरत्वतौल्येऽपीत्यर्थः / द्वयोः जिनसूर्ययोः महसोः तेजसोः विशेषमतिशयं परीक्षितुमिव दर्शितः, जातकस्य तृतीयदिने सूर्यदर्शनस्य विहितत्वादिति भावः // 161 // अदीति अदर्शि तत्रैव दिने दिनात्यये, स तस्य पित्राऽस्य निशीथिनीपतिः / बिलोकनादेव तवेश ! केवलं, कलङ्कितादूषणमस्य यात्विति // 16 // तत्र तृतीय एव दिने दिनस्यात्यये निगमे रात्रावित्यर्थः, स जिनः तस्य जिनस्य पित्रा जनकेन विश्वसेनेन निशीथिनीपतिश्चन्द्रः ईश ! जिन ! केवलं तव विलोकनादेव विलोकनमात्रत एव अस्य चन्द्रस्य कलङ्कितारूपं दूषणं यातु नश्यतु इति / हेतोरिवादर्शि, जिनदर्शनस्य सकलकलङ्कनाशकत्वादिति ध्वनिः दर्शनं तु तथाऽऽचारादिति भावः // 162 / /