________________ 50 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / सेति स सौविदल्लीभिरुपेत्य वर्धितः सुतप्रसूत्या वसुधासुधाकरः ददद् वदान्यः परितुष्टः मानसे न योग्यमेतद् भवतीति वेद न // 155 // स वसुधायां सुधाकरश्चन्द्र इव विश्वसेनः सौविदल्लिभिः कञ्चुकिनीभिः उपेत्यागत्य सुतस्य प्रसूत्योप्तत्या कृत्वा वर्धितः वर्धापितः वदान्यः अनुत्तरो दाता परितुष्टमानसः सन् ददत् दानं कुर्वत् एतदपरिमितं दानं यस्मैकस्मैचिदपात्रायापि दानाद्योग्यमुचितं न भवतीति न वेद बुबुधे अपरिमिते दाने हि पात्रापात्रविचारो दुष्कर इति भावः // 255 // सुतेति सुतप्रभावं विनिशम्य नागरैः, श्रुतप्रभावं पृथिवीपतेरथ / विनाऽपि निर्देशमकारि सोत्सवं, विचित्रमञ्चैरपि तच्च पत्तनम् // 156 // .. अथानन्तरम् , नागरैः पुरवासिभिः पृथवीपतेः विश्वसेनस्य श्रुतप्रभावं ख्यातप्रभावं सुतस्य प्रभावमुत्पत्ति विनिशम्य निर्देशं राजाज्ञां विनापि भक्तिहर्षातिशयात् तत्पत्तनं नगरम् विचित्रैः नानाविधैः मञ्चैः उपलक्षणत्वात्तोरणादिभिश्च सोत्सवमकारि // 156 // जिनेन्द्रति जिनेन्द्रजन्मोत्सवतोषपूरितं, पुरं तदानीमपि हस्तिनापुरम् / मरुत्समुद्धतविलोलकेतनैर्मरुत्वतस्तर्जयति स्म पत्तनम् // 157 // तदानीम् तस्मिन् समये जिनेन्द्रस्य जन्मनः उत्सवेन तोषेणानन्देन पूरितं हस्तिनापुरं तदाख्यं पुरम् मरुता पवनेन समुद्भूतैः कम्पितैः विलोलैः स्फुरायमाणैः केतनैः ध्वजैः कृत्वा मरुत्वतः इन्द्रस्य पत्तनममरावतीमपि तर्जयति निर्भत्सर्यति स्म // “इन्द्रो मरुत्वान्मघवा विडोजाः पाकशासनः" / इत्यमरः // 157 // मुक्तेति मुक्तास्वस्तिकसंचयः प्रतिगृहं रेजे तरां निर्मितः, सर्वाभिः पुरसुन्दरीभिरुदयहृत्समदाभिस्तदा / भव्यानां सुकृतप्रसाधनविधौ न्यस्ताशयानां ध्रुवं, जाते तीर्थकरेऽवदातयशसामुप्तानि बीजानि व // 158 // तदा तीर्थकरे जाते जन्मोत्सवे प्रवृत्ते च सति सर्वाभिः उदयन्त आविर्भवन्तः हृदः सम्मदा हर्षा यासां ताभिरतिहृष्टाभिः पुरसुन्दरीभिः प्रतिगृहं गृहे गृहे निर्मितः मुक्तानां स्वस्तिकस्य मङ्गलचिह्नविशेषस्य संचयः राशिः रेजे तरामशोभत, किमिवेत्याह सुकृतस्य पुण्यस्य