SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / नयुक्तानि नन्दासनानि असममनुपमं नेपथ्यस्य राजवेषस्य योग्यं वस्त्रादिकञ्चामुञ्चत् निदधौ // 151 // अर्हदिति-- अर्हन्मातुरुताहतोऽशुभमहो यः किञ्चन ध्यास्यति, भेत्स्यत्यर्जकमञ्जरीव नियतं तन्मस्तकं सप्तधा / एवं तारतरस्वराः खलु सुरा आघोषयामासुराः, शक्रादेशनिरूपणप्रणयिनो देवेषु सर्वेष्वपि // 152 // अहो ! आः ! महाश्चर्यमेतत् यत् शक्रस्य आदेशस्य निरूपणे पालने प्रणयिनः प्रीतिमन्तः सुराः खलु तारतरस्वराः उच्चैःस्वराः सन्तः एवं सर्वेष्वपि देवेषु विषये आघोषयामासुः एवमिति किमित्याह यः कोऽपि अर्हन्मातुरचिरायाः उताथवा अर्हतः किञ्चनाशुभमनिष्टं ध्यास्यति चिन्तयिष्यति, करणस्य तु कथैव केत्यर्थः तस्य मस्तकं नियतं निश्चयेन अर्जकस्य वृक्षविशेषस्य मञ्जरीव सप्तधा सप्तखण्डः कृत्वा भेत्स्यति विशीर्णं भविष्यति // 152 // धात्रीति धात्रीकर्मणि शर्मणि त्रिशदराडू मुक्त्वाऽप्सरःपञ्चक स्नानाभ्यन्जनपालनापटु गतो द्वीपेऽथ नन्दीश्वर / तत्राष्टाहमहोत्सवं विधिपराः संपाद्य राकाथुतः, स्वं स्वं धाम मुदाऽञ्चिता ययुरथो सर्वे सुपर्वेश्वराः // 153 // अथानन्तरम् त्रिदशराट्र शक्रः शर्मणि कल्याणनिमित्तं धात्री उपमाता "धात्री स्यादुपमाताऽपि" इत्यमरः तस्याः कर्मणि कृत्ये स्नाने अभ्यञ्जने पालनायाञ्च पटु निपुणमप्सरसां पञ्चक पञ्चाप्सरसो मुक्त्वा स्थापयित्वा विनियुज्य वा नन्दीश्वरे द्वीपे गतः तत्र नन्दीश्वरद्वीपे राकादिनतः पूर्णिमामारभ्य विधिपराः विधिज्ञाः सर्वे सुपर्वेश्वराः इन्द्राः अष्टाहमहोत्सवं सम्पाद्य अथो अनन्तरम् मुदाऽञ्चिताः सहिताः सन्तः स्वं स्वं धाम स्थानं ययुः // 153 // अथेति अथ प्रभाते विकसत्प्रभाभरे व्यपेतनिद्रा समवेक्षताऽङ्गजम् / अरिष्टदीपस्य महांसि तेजसा विनिर्जयन्तं वसुधेशवल्लभा // 154 // अथानन्तरम् विकसन् प्रसरन् प्रभाभरः यस्मिन् तादृशे प्रभाते प्रातःकाले वसुधेशवल्लभा नृपप्रिया अचिरा व्यपेतनिद्रा प्रबुद्धा सती अरिष्टदीपस्य प्रसूतिकागृहस्थदीपस्य महांसि तेजांसि तेजसा स्वप्रभया विनिर्जयन्तमङ्गजं पुत्रं समवैक्षत् // 154 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy