________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः. ईस्युक्तप्रकारेण स्तवं वितत्य कृत्वा ततोऽनन्तरम् पश्चरूपभाक् कृतपञ्चशरीरः स सुपर्वनायकः शकेन्द्रः ईशानवृषाङ्कतः ईशानेन्द्रोत्सङ्गतः “वजी वासवो वृत्रहा वृषा" इति-"उत्सङ्गचिह्नयोरक" इति चामरः / जिनेशं करे स्वकरे समादाय आशु शीघ्रमेव अरिष्टवेश्मनः प्रसूतिगृहस्यान्तः जग्मिवान् // 148 // हृत्वेति हृत्वाऽपस्वापिनों तां प्रतिकृतिमपि तामाईतीमाईतो दाग, मुक्त्वा मातुः समीपे जिनपतिमुपधौ कुण्डले दिव्यवस्त्रे / न्यस्योल्लोचे च सारं विविधमणिमयं कन्दुकं लम्बमानं, यस्मिन् दृष्टिविनोदं भजति भगवतस्त्वस्य च स्याद् न दृष्टिः // 149 // जिनेश्वराः स्तन्यपिवा भवन्ति न.क्रम विजानन्निति नाकनायकः। .. प्रभोः कराङ्गुष्ठतलेऽतिनिर्मले स्वभक्तिशक्त्या समचारयत् सुधाम् // 150 // आर्हतः अर्हतोऽयं स शक्रेन्द्रः तां पूर्वकृताम् अपस्वापिनी निदां तथा तां पूर्वन्यस्तामाहतीम् अर्हतः प्रतिकृति बिम्बमपि हृत्वा संहस्य जिनपतिं मातुः समीषे मुक्त्वा निधाय कुण्डले दिव्ये वस्त्रे भ उपधावुच्छीर्षे यस्य परिधाप्य उल्लोचे विताने . "अस्त्री वितानमुल्लोच" इत्यमरः सारं श्रेष्ठमम् विवषमणिमयं लम्बमानं कन्दुकं स्वर्णगेन्दुकं च, न्यस्य, यस्मिन् कन्दुके भगवतः दृष्टिर्नेत्रं विनोदं कौतुकं भुजति, वस्यान्यस्य दृष्टिदोषश्च न स्यात्, लम्बमानं चित्रं वस्तु दृष्ट्वा बालकः क्रीडति, भागतेन च प्रथमं तद्विलोकनात्पश्चाद्वालकावलोकनाश्च दृष्टिदोषोऽपि निवर्तते, अतस्तथाकरणाचार इति भावः तथा नाकनायकः शक्रेन्द्रः जिनेश्वरः स्तन्यपिबाः मातृस्तनोद्भवदुग्धपातारो न भवन्तीथं क्रमम् व्यवहार जानन् सन् प्रभोर्जिनस्यातिनिर्मले करस्याङ्गुष्ठतले स्वस्य भक्त्या सक्त्या सुधाममृतं समाचारयत्, सुधासञ्चारं कृतवानित्यर्थः // 149 // ॥१५०॥युग्मम् कोटीरिति कोटीः षोडश रुक्मणां द्विगुणिता रूप्याणि रत्नान्यर्पि, प्रत्येकं च पृथक पृथक् पृथुमतिर्नन्दासनानि क्रमात् / सद्भद्रासनयुज्यमुच्चदसमं नेपथ्यवस्त्रादिकं, स्वर्नाथस्य निदेशतो धनपतिः श्रीविश्वसेनौकसि // 151 // स्वर्नाथस्येन्द्रस्य निदेशतः आज्ञातः पृथुमतिः विशालबुद्धिः धनपतिः कुबेरः श्रीविश्वसेनस्य राज्ञः ओकसि गृहे रुक्मणां स्वर्णानां षोडश कोटीः द्विगुणताः द्विगुणीकृताः द्वात्रिंशत्कोटीरित्यर्थः तथा रूम्याणि रत्नान्यपि च प्रत्येकं पृथक् पृथक् द्वात्रिंशत्कोटीनि क्रमात् सद्भद्रासनयुखि भद्रास