________________ आ• श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ____ विभो ! मे मम हृदये वासमलङ्गुरु स्वीकुरु हृदयरूपं वासं वासस्थानमिति वा मम हृदयस्थो भवतु भवानित्यर्थः, तत्र तव प्रयोजनाभावेऽपि ममैव प्रयोजनमित्याह यथा तब पराक्रमेण प्रभावेन कुष्ठितविक्रमाः प्रतिहतप्रभावाः सन्तः प्रतिधप्रसुखाः क्रोधादयः, "कोपकोघामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रिया" मित्यमरः द्विषः अन्तरारयः मां न परिभवन्तितमां नितरां पौडयन्त्येव // 14 // कमपीति कमपि कश्चन चेद् विनिषेवते, न खलु सोऽपि कदाचन सीदति / परमहं भुवनत्रितयप्रभो !, न सुखमेमि कथं तव सेवकः // 145 // कश्चन पुरुषः कमपि ममर्थं विनिषेवते सेवते चेत्, सोऽपि खलु कदाचन न सीदती पीडामनुभवति, सेव्येन सेवकरक्षणादिति भावः परं किन्तु भुवनत्रितयप्रभो ! अहं तव सेवकः सन्नपि कथं न सुखं मोक्षसुखमेमि प्राप्नोमि इतरवत्त्वमपि मां रक्षेत्यर्थः // 145 // समेति समधिगम्य परं तव दर्शनं, निखिलनास्तिकपक्षविघातनात् / अनुभवागमसाधनबद्धधी-विबुधराज्यमिदं चरितार्थये // 146 // तव परं परमार्थरूपं दर्शन सम्यग्दर्शनम् त्वदुक्ततत्त्वश्रद्धानलक्षणं समधिगम्य बुध्वा निखिलानां नास्तिकपक्षाणामनात्मवादिमतानां विधातनात्तवदर्शनेन खण्डनाद्धेतोः अनुभवेन प्रत्यक्षादिरूपेण आगमेन तव प्रवचनरूपेण च साधनेन हेतुना कृत्वा बद्धधीः दृढबुद्धिरहमिदमनुभूयमानं विबुधराज्यं देवराज्यं चरितार्थये सफलयामि, नास्तिवान मतस्य देवादिभवनीषेधात्मकस्य खण्डनात् मम राज्यं यथार्थमेव प्रकटयामीति भावः // 146 // सुकृतेति-- सुकृतवासनया तव सेवन, विरचयन् न कथं भववासनः ? भवति नैव कुकर्मविघातने, तदहमारचयामि जिनेश्वर ! // 147 // जिनेश्वर ! सुकृतवासनया पुण्येच्छया तव सेवनं विरचयन् कुर्वन कथं भवे वासना यस्य स तादशः भवानुबन्धी न नैव भवति, अपि तु भवमेवानुबध्नाति, पुण्यफलस्य भवस्यावश्यम्भावादिति भावः, अहं तत्सेवनं कुकर्मणां कर्माष्टकाणां विघातने विनाशनिमित्तमारचयामि करोमि, यथा सकलकर्मक्षयतः पुनर्भवो मा भूदिति भावः // 147 // स्तवमिति स्तवं वितत्येति सुपर्वनायको, जिनेशमीशानषाङ्कतस्ततः / करे समादाय स पञ्चरूपभागरिष्टवेश्मान्तरमाशु जग्मिवान् // 148 //