________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / जिन ! भवतोऽवेक्षणतोऽवलोकनतः भवशतेषु अर्जितानां कल्मषाणां पापानां सन्ततिः नश्यति, तत्रोपमामाह-यथा नवस्य बलाहकस्य मेघस्य-"अभं मेघो वारिवाहः स्तनयित्नुर्बलाहकः" इत्यमरः / वर्षगत दवानलसंहतिः शमं शान्तिमुपैति, तथेत्यर्थः // 140 // अमृतेति-- . अमृतदीधितिदीधितिसन्निभैस्तव . गुणैरसमानतया श्रतैः। सकललोकनिकामविमृत्वरैः, किमु कणादमतं न हतं प्रभो ! // 14 // प्रभो ! सकलेषु लोकेषु निकामतया अप्रतिहततया विसृत्वरैः प्रसरद्भिः, अत एव असमानतया अनुपमतया श्रुतः ख्यातैः अनुपमैरित्यर्थः, तव, अमृतदोधितेश्चन्द्रस्य दीधितीनां मरी. चीनां सन्निभैस्तुल्यैः गुणैः निर्मलैर्गुणैरित्यर्थः, कणादस्य तदाख्यमुनेः मतं चतुर्विशतिर्गुणाः ते च न सर्वे सर्वत्र किन्तु विभक्ताः यद्वा तन्मते आत्मनो बुद्धीच्छादयोऽष्टगुणाः इत्येवं . रूपम् हतं . खण्डितं किमु न ? अपि त्ववश्यं हतम्, भवद्गुणानामानन्त्यात्सर्वगत्वाच्चेति भावः // 14 // द्रुतेति दुतसुवर्णरसेन तवाङ्गकं, ध्रुवमिदं घटितं शुभकर्मणा / विकचचम्पकपुष्परसेन वा, विमलपीतसुगन्धगुणास्ततः॥१४२॥ तवेदं दृश्यमानमङ्गकं बालत्वाद्-हस्वमङ्गं, बालशरीरमित्यर्थः, शुभकर्मणा कारणीभूतेन पुण्यकर्मणा द्रुतस्य विलीनस्य सुवर्णस्य रसेन द्रवेण धटितं निर्मितम्, ध्रुवमेतत्, वा अथवा विकचना प्रफुल्लानां चम्पकपुष्पाणां रसेन घटितं ततो हेतोस्तव भवदङ्गे विमला. पीतं पीतता सुगन्धः, सौरभ्यं विमलं नैर्मल्यं च गुणाः, कारणगुणा कार्यगुणानारभन्ते इति न्यायात्कार्या, कारणानुमानादिति भावः // 142 // जिनेति जिन ! विमानमनुत्तरसंज्ञकं, न सुषमा दधते भवतो विना। गृहमणौ भवनादपसारिते, स्फुरति किं तिमिरं न निरर्गलम् ? // 143 // जिन अनुत्तरसंज्ञक विमानम् भवतः विना, तव च्यवनेनात्रावताराद्भवहितम्, मुषमा परमा शोभा न दधते, तत्र दृष्टान्तमाह भवनाद् गृहाद् गृहमणौ दीपे अपसारीते दूरीकृते सति निरर्गलमप्रतिहतं तिमिरं ध्वान्तं न स्फुरति वर्धते किम् ? अपि त्ववश्यं वर्धते तथा भवतो विना अनुत्तरविभानं प्रकासरहितमित्यर्थः // 143 / / हृदयेति हृदयवासमलं कुरु मे विभो, परिभवन्तितमा न यथैव माम् / कथमपि प्रतिषणमुखा द्विपस्तव पराक्रमकुण्ठितविक्रमाः // 144 //