________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनोयुतम् - तंत इति-- ततोऽपमृत्यामरनायको मनाक् प्रपन्च्य चाऽऽरात्रिमुच्छलच्छिखम् / सुमङ्गलं मङ्गलदीपकं विभोः सहर्षमुत्तारयति स्म भावतः // 136 // ततोऽष्टमङ्गलीपूरणानन्तरम्, अमरनायकश्शको मनादृगीषदेवापसृत्य दूरं गत्वा उच्छलन्ती उद्गच्छन्ती शिखा ज्वाला यस्य तादृशमारात्रिकं नीराजनं प्रपञ्चय विधाय च भावतो भक्तितोः सह. र्षम् विभोर्जिनस्य सुमङ्कलं मङ्गलदीपम् उत्तारयति स्म // 136 // प्रणम्येति-- प्रणम्य गीर्वाणाग्रणीस्ततः समं स गीर्वाणगणेन तत्क्षणम् / प्रचक्रमे स्तोतुमनन्तभक्तिभाग जिनेश्वरं चित्त्रयभास्वरमभम् // 137 // ततोऽनन्तरम् स गीर्वाणगणाग्रणीरिन्द्रः तत्क्षणम् गीर्वाणगणेन समं प्रणभ्य अनन्तभक्तिभाक् सन् चित्त्रयेण मतिश्रुतावधिरूपेण ज्ञानत्रयेण भास्वरा प्रभा यस्य तं जिनेश्वरं स्तोतुं प्रचक्रमे // 137 // स्तुतिमेवाह जिनेति जिनपते ! स्तवनं विदधे तव प्रतिपदा पदमाप्तुमनश्वरम् / उपधिभावमपास्य निषेविताः, पददते प्रभवा हि समीहितम् // 138 // जिनपते ! अनश्वरम् शाश्वतम् प्रतिप्रदां ज्ञानानां पदं स्थानम्, मोक्षपदमित्यर्थः आप्तुं प्राप्तुं तव स्तवनं स्तुति विदधे, कुतस्तादृगाशा तवेति चेत्तत्राह हि यतः प्रभवः भवादृशाः अतिशयवन्तः उपधिभावं छलमपास्य निष्कपटमित्यर्थः निषेविताः स्तुतिपूजादिना सेविताः सन्तः समीहितं ददते // 138 // अन्विति अनुपमा तव मूर्तिरियं मया, ध्रुवमवैक्षि विभो ! न भवान्तरे / अपरथा न ममाऽपि भवान्तरं, कथमपि प्रभवेद् भवतो यथा // 139 // विभो ! मया इन्द्रेण अनुपमा तवेयं वर्तमाना दृश्यमाना च भूर्तिः भवान्तरे पूर्वजन्मनि न अवैक्षि, ध्रुवमेतत्, अपरथा अन्यथा भवान्तरे तवेदगमूर्तिदर्शने सति ममाऽपि कथमपि भवान्तरं जन्मान्तरं न प्रभवेत् न स्यात् भवतस्तव यथा, जन्मान्तरं न भविता तथेत्यर्यः तवेदग्रूपदर्शनान्न भवान्तरं भवति प्राणिन इत्यभिप्रायः स्तोतुः // 139 // .. भवेति भवशतार्जितकल्मपसन्ततिर्भवदवेक्षणतो जिन ! नश्यति / शममुपैति दवानलसंहतिर्नवबलाहकवर्षणतो यथा // 10 //