________________ 44 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / धति किं ? नैवेत्यर्थः असाधारणे कायें चेत्प्रमाचेत्तहिं क्वाप्रमत्ता स्यादिति भावः // 132 // का साऽष्टभेदा पूजेत्यत आहगन्धैरिति-- गन्धैश्चन्दनचन्द्रकुङ्कममुखैधूपैश्च कृष्णागुरुपोदभूतैर्गरुडाक्षतैरविकलैः पुष्पैश्च नानाविधैः / दीपैः स्नेहदशासमृद्धिकलितैर्वविचित्रैः फलैः नैवेद्यैश्च जलैरपीति सुकृती पूजां व्यधादष्टधा // 133 // चन्दनं चन्द्रः कर्पूरः "धनसारश्चन्द्रसंज्ञः कपूर" इत्यमरः कुंकुमं घुसृणं च मुखं प्रधानं येषाम् तैस्तादृशः गन्धैरनुलेपनै कृष्णागुरुभिः हृतैः सद्भिः प्रोद्भूतैः जातैः धूपैश्च अविकलैर खण्डितैः गरुडाक्षतैः गरुडवद्धवरक्षतैस्तण्डुलैः नानाविधैः पुष्पैश्च स्नेहः धृतादिद्रवः दशा वर्तिः तेषां समृद्धयाऽधिक्येन कलितैः समन्वितैः दीपैः वर्यैः सत्तमैः विचित्रैर्नानाविधैः फलैः नैवेद्यैर्मोदकादिरूपैर्जलैरपीत्येवमष्टधा पूजाम् सुकृतीन्द्रः व्याधात् // 133 // पुरेति पुरन्दरोऽथाद्भुतरत्नपट्टकेऽष्टमङ्गली तन्दुलकैर्वभार च / दुरन्तकर्माष्टकभेदहेतवे प्रसिद्धसिद्धयष्टकलब्धये तथा // 134 // अथ पूजानन्तरम्, पुरन्दर इन्द्रः अद्भुतेऽलौकिके रत्नस्य पट्टके दुरन्तानां दुष्परिणामानां कर्माष्टकानां भेदस्य हेतवे नाशार्थम् तथा प्रसिद्धस्य सिद्धीनामणिमादीनामष्टकस्य लब्धये प्राप्तये तन्दुलकैः रूप्यतण्डुलैः अष्टानां मङ्गलानां समाहारस्ताम् अष्टमङ्गलान्यलिखत् बभारा पूरयत् च // 134 // का साष्टमङ्गलीत्यत आह आदर्श इति आदर्श परिदृश्य एव विदुषां भद्रासनं भद्रकृद्, याथार्थेन च वर्धमान उदितः श्रीपूर्णकुम्भस्तथा / वयं मत्स्ययुगं समुज्झितजडं श्रीवत्सकस्वस्तिको, नन्धावत इतीरिता मुनिवरैः सा ज्ञानरत्नाकरैः // 135 / / विदुषां विद्वज्जनानां परिदृश्यः दर्शनीयः आदर्शः दर्पणः एव भदकृत्कल्याणकृत् भद्रासनम् तथा याथार्थेन यथार्थतः वर्धमानः, उदितः कथितः निरावरणः समृद्धिमान् पूर्णकुम्भः पूर्णकलशः समुज्झितं त्यक्तं जडं जडता च यतस्तादृशं वर्ण्य प्रशस्तं . मत्स्ययुगम् श्रीवत्सकस्वस्तिको नन्द्यावर्त इतीत्थं ज्ञानरत्नाकरैः ज्ञानिभिः मुनिवरैः साऽष्टमङ्गलीरिता कथिता // 135 //