SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अष्टानां ककुभां ध्रुवं परिवृद्वैः स्वच्छाम्बुधारामिषात्, संप्राप्तानि तदा यशांस्युपहृतान्येतानि मौलौ विभोः // 130 // अमर्त्यराट् शक्रेन्द्रः अष्टभिः अष्टसङ्ख्याकाभिः तेषां वृषभाणामुन्नतेभ्यः शृङ्गेभ्यः भागे विषाणेभ्यः निरयन्तीभिः प्रवहन्तीभिः पीयूषविक्षेपिकाभिः सुधाकृद्भिः अम्भसा जलानां धराभिः जिनस्य स्नात्रं व्यरचयच्चकार तदुत्प्रेक्षते तदा यत्तदोर्नित्यसंबन्धाद् यदा स्नात्रकाले एतानि स्नात्रजलानि विभोर्जिनस्य मौलौ मस्तके अष्टानां ककुभां दिशां परिवृढरीशैः अष्टदिक्पालैः स्वच्छानामम्बूनां धाराणां मिषाद् व्याजात् उपहृतानि उपदीकृतानि स्थापितानि तदा यशासि सम्प्राप्तानि अवाप्तानि तानि ध्रुवमित्युत्प्रेक्षायाम्, धावल्यादिति भावः // 130 // प्रक्षिप्तमिति प्रक्षिप्तं सुरनायकैः स्वशिरसि स्नानाम्बु कैश्चित् प्रभोरन्यैस्तद्विनिपातुकं नयनयोराधायि यत्नादपि / कैश्चिच्चन्दनपङ्कवत् विनिहितः स स्नात्रपङ्कोऽलिके, धन्यैरेव जनुःसहखकलुषोच्छेद्याऽऽप्यते तत्परम् // 131 // कैश्चित् सुरनायकैरिन्द्वैः प्रभोः जिनस्य विनिपातुकं पतत्तत्स्नानाम्बु स्नानजलम् स्वस्य शिरसि प्रक्षिप्तं सिक्तम् तथा अन्यैः कैश्चित् यत्नाद्यत्नपूर्वकम् नयनयोरप्याधायि प्रक्षिप्तम् तथा कैश्विञ्चन्द्रनपङ्कवत् स स्नात्रपङ्कः स्नानजलधूलिमिश्रणाज्जातः पङ्कः अलिके विनिहितः ननु किमित्थं तैरकारांति चेत्तत्राह-परं दुर्लभं तत्स्नात्रजलादि जनुषां जन्मनां सहस्राणां कलुषाणां पापानामुच्छेदि विनाशकं तत्स्नात्रजलादि धन्यैः तादृशाद्भुतभाग्यशालिभिरेवाऽऽप्यते नतु सर्वेरपीत्यर्थः // 131 // सौधेति सौधर्मेन्द्रस्त्रिभुवनगुरोर्वष्म समाय॑ गन्धकाषाय्याऽयो मलयजरसैमॅक्तिपूर्व विलिप्य / चक्रे पूजामवधिनियतां विश्रुतामष्टभेदां, बुद्धिस्तस्य स्खलति किमहो ! तादृशे वाऽपि कार्ये // 132 // अथो अनन्तरम् सौधर्मन्दः त्रिभुवनगुरोजिनस्य वर्म शरीरम् ‘शरीरं वर्म विग्रह' इत्यमरः गन्धकाषाय्या सुगन्धिकषायवस्त्रेण सम्माय॑ सम्प्रोच्छच भक्तिपूर्व मलयजरसैः चन्दनद्रवैविलप्य अवधिनियतामष्टभेदां विश्रुतां प्रसिद्धां पूजां चक्ने / ननु किमिति अवधिनियतैव पूजा कृता, न जातु स्खलितेति चेत्तत्राह अहो तादृशे जिनपूजारूपेऽपि कायें तस्येन्द्रस्य बुद्धिः स्खलति प्रमा
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy