________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः विधायेति-- विधाय सम्यक् स्नपनार्चने ततः सुराधिनाथा जिननाथमानमन् / जगत्त्रयीनायकभावमग्रतो, विभोर्बवाणा इव शैशवेऽपि ते // 127 / ततोऽनन्तम् सुराधिनाथाः शक्रा विभोर्जिनस्य स्नपनार्चने स्नपनपूजने सम्यग्यथाविधि विधाय ते शक्राः देवाः शैशवे बाल्येऽपि अग्रतोऽने जगत्त्रय्याः नायकभावमीयत्वं ब्रुवाणा इव जिननाथमानमन्नमन्ति स्म // 127 // साविति-- सौधर्मपभुवद् विधाय तरसेशानप्रभुः पञ्चकं, रूपाणामकृतककेन स जिनं स्वोत्सङ्गपर्यगम् / अन्येनातपवारणं विधृतवान् द्वाभ्यां सिते चामरे, शुलं मोल्ललयन् दधार पुरतोऽप्यन्येन मूलं श्रियाम् // 12 // सौधर्मप्रभुः सौधर्मेन्द्रस्तद्वत् इशानप्रभुः ईशानेन्द्रोऽपि तरसा झटिति रूपाणां पञ्चक विधाय स ईशानेन्द्रः एककेनैकेन रूपेण जिनं स्वस्योत्सङ्गेऽङ्क एव पर्यङ्कस्तद्गम् अकृत स्वोत्सङ्गेऽस्थापयदित्यर्थः / तथा अन्येन द्वितीयेन स्वरूपेण आतपवारणं छत्रं विधृतवान्, द्वाभ्यां सिते धवले चामरे विधृतवान् तथा अन्येन पञ्चमेन स्वरूपेण श्रियां मूलं निदानं शूलं तदाख्यमायुधं प्रोल्ललयन् भ्रामयन् पुरतोऽप्रतोऽपि स्थितः दधार मूलं धृतवान् // 128 // स्फटिकेति स्फटिकवृषभान् सुत्रामाथ व्यधत्त चतुर्मितान्, सुकृतदलिकाद् मूर्ति प्राप्तानिवेशदिदृक्षया / सुरशिखरिणश्छाया येषु स्वयं प्रतिबिम्बिता, कनकमयतामेवाऽऽचष्टाऽक्षवृत्तिविबोधिनी // 129 // अथ रूपपञ्चकविकरणाद्यनन्तरम् सुत्रामा शकेन्द्रः ईशस्य जिनस्य दिदृक्षया द्रष्टुमिच्छया सुकृतदलिकात् पुण्यदलिकात् मूर्ति रूपादिमत्त्वै प्राप्तानिव चतुर्मितान् चतुरः स्फटिकस्य वृषभान् बलीवर्दान् व्यधत्त, विचकार, येषु वृषभेषु स्वयं स्वत एवं प्रतिबिम्बिता सुरशिखरिणो मेरोच्छाया प्रतिबिम्बम् अक्ष्णां नेत्राणां वृत्तेः विबोधिनी चामुषज्ञानजनिका सती कनकमयतां वृषभाणां कनकनिर्मिततामेवाचष्ट कथितवती, स्फटिके सुवर्णप्रतिभासात्सुवर्णमया ददृशिरे वृषभा इत्यर्थः॥१२९॥ वेषामिति तेषामुन्नतशृङ्गभागनिरयत्पीयूषविक्षेपकाम्मोधाराभिरमर्त्यराइ व्यरचयत् स्नात्रं जिनस्याऽष्टभिः /