________________ 51 आ० श्रीविजयदशनसूरीश्वरकत-प्रबोधिनीयुतम् ये इति ये पुष्पस्तबकन्ति मूर्धनि मुखे कपूरपूरन्ति ये, कण्ठे माणवकन्ति ये च हृदये श्रीखण्डलेपन्ति ये / सर्वाङ्गेषु यशश्चयन्ति च जयश्रीणां कटाक्षन्ति ये, वार्वाहाः कलशेभ्य एव पतिताः क्षीराम्बुधेस्ते प्रभोः // 124 // ये वार्वाहः जलप्रवाहः प्रभोः जिनेशस्य मूर्धनि मस्तके पुष्पस्तबकन्ति पुष्पाणां स्तबकानि गुच्छानि इवाचरन्ति मस्तकपाताहतानां जलानां स्थूलबिन्दुवृन्दानां गुच्छकारत्ववाद्धावल्याच्चेति भावः / तथा, ये जलप्रवाहा मुखे, जिनेशस्येति सर्वत्र सम्बध्यते कर्पूरपूरन्ति कर्पूरपूरवदाचरन्ति, शैत्यात्सौरभ्याच्चेति भावः / तथा ये कण्ठे माणवकन्ति, हास्वदाचरन्ति गलस्योभयतो हाराकारेणाम्भःपातादिति भावः / तथा हृदये श्रीखण्डलेषन्ति श्रीखण्डलेपवदाचरन्ति शैत्यात्सौरभ्याच्चैवेति भावः / सर्वाङ्गेषु यशश्चयन्ति यशश्चयवदाचरन्ति धावल्यादेवेति भावः तथा ये जयश्रीणां विजयलक्ष्मीणाम् कटाक्षन्ति कटाक्षवदाचरन्ति धावल्यादेवेति भावः / ते तादृशाः कलशेभ्यः पतिताः वार्वाहाः जलप्रवाहाः क्षीराम्बुधेः क्षीरोदधेरेव पतितः जलानामतिनिर्मलत्वाद् दुग्धसाम्यदिति भावः ॥उपमा // 124 // विभाविति विभौ त्रिषष्टया स्नपिते सुरेश्वरैः, परस्परालम्बितशुद्धसंवरैः / तदद्भुतं निर्मलतामवाप्य यद धुवासिभिर्नितिरापि तैस्तदा // 125 // सुरेश्वरैः शनैः त्रिषष्टया त्रिषष्टिसङ्ख्यकैः विभौ जिनेशे स्नपिते सति, एकस्य शक्रेन्द्रस्य त्वङ्के एव जिनेशः इति स्नपनेऽव्यापारस्त्रिषष्टयेत्युक्तामिति बोध्यम् / परस्परमालाम्बितमाश्रितं शुद्धं संवरं कर्मसंवरं यैस्तैस्तादृशै तैः धुवासिभिर्देवैः निर्मलताम् निरञ्जनत्वमवाप्यं यन्निवृतिः सुखमपि तदद्भूतमाचर्यम् स्नाता हि निर्मलतामाप्य निर्वृतिमेति, अत्र तु स्नपयितेति तदाश्चर्यमिति भावः, जिनेशसेवातः शुद्धान्तराः सुखमायन्तीति यावत् // 125 // वपुश्चेति वपुश्च संमाय॑ सुगन्धिवाससा, विलिप्य गोशीर्षकदिव्यचन्दनैः / व्यभूषि पुष्पैरपि तैर्जिनस्य यत्, तदद्भुतं यत् फलमापि तत्क्षणम् // 126 // सुगन्धिना सुवासितेन वाससा जिनस्य वपुः शरीरं संमार्ण्य स्नान जलरहितं कृत्वा च गोशीर्षकैः गोरोचनैः दिव्यचन्दनैश्च विलिप्य अनुलेपनं कृत्वा तैरेवैः यत्पुष्पैः व्यभूषि विभूषितं तं कृतमपि तदद्भूतम् यद्यतः तत्क्षणमेव फलम् जिनसेवाफलमापि // 126 // शा०६