________________ 40 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / जलानि मृदः मृत्तिकाश्च तथा क्षुद्राल्लघोः हिमाद्रेः सिद्धार्थाश्च सर्षपाश्च महौषधीश्च सुमेरोः काननचयानसमूहात्पुष्पाणि च स्नात्राय स्नात्रमहोत्सवाय भक्त्या सहसा द्रागेवानयन् // 120 // अथेति अथ व्यमुञ्चत् कुसुमाञ्जलिं पुरा, सुरैः समं द्वादशकल्पवासवः / सुमैः स तैरेव सरोजमिश्रितैः, पदग्धकृष्णागुरुधृपधुपितैः // 121 // अथसामग्रीघटनानन्तरम्, पुरा आदौ स प्रसिद्धः द्वादशकल्पवासवो अच्यतेन्द्रः सुरैः समम् प्रदग्धानां ज्वालितानां कृष्णागुरूणां धूपैः धूपधूमैः धूपितैः सुरभीकृतैः सरोजमिश्रितैः कमलसहितैः तैः सद्य आनीतैरव सुमैः पुष्पैः कृत्वा कुसुमाञ्जलिं व्यमुञ्चददौ // 121 // . विस्फूर्जदिति विस्फूर्जन्मुखपद्मकोशकलिताः संवीतदिव्यांशुकाः, . पुष्पाभ्यार्चिततत्तदयकलशान् धृत्वा कराब्जेषु ते / सम्यग्दैवतदेवतासु सुतरां सर्वासु तूर्यत्रिकव्यग्रासु प्रयतेऽथ किन्नरगणे गानं वितन्वत्यपि // 122 // तीर्थेशस्य गुणान् पठत्सु दिविषद्वैतालिकेपूच्चकै . . स्तीर्थाधीश ! जयेति चारणगणेपूच्चारयत्सु स्तुतिम् कान्त्या शारदशर्वरीपरिदृढज्योत्स्नाजयन्तस्ततः शक्र अच्युतवासवप्रभृतयः स्नात्रं जिनेशो व्यधुः॥१२३॥ (युग्मम्) अथानन्तरम् विस्फूर्जद्भिः विकसितैः मुखान्येव पद्मकोशास्तैः कलिताः शोभिताः हर्षप्रफुल्लमुखाः संवीतानि परिहितानि दिव्यान्यंशुकानि वासांसि यैस्तादृशाश्च सन्तः कराब्जेषु करकमलेषु पुष्पाभ्यर्चितान् तान् तानग्रयान् उत्कृष्टान् कलशान् धृत्वा सर्वासु दैवतदेवतासु सुतरामतिशयेन सम्यक् तूर्यत्रिकेषु नृत्यगीतवाद्येषु व्यग्रासु व्यापृतासु सत्सु प्रयते सावधाने किन्नरगणे गानं वितन्वति कुर्वत्यपि सति दिविषदां देवानां वैतालिकेषु मङ्गलपाठकेषु तीर्थेशस्य गुणान् उच्चकैरुच्चस्वरेण पठत्सु सत्सु चारणगणेषु तीर्थाधीश ! जयेत्येवं स्तुतिमुच्चारयत्सु सत्सु च ततोऽनन्तरम् कान्त्या शारदः शारदर्तुभवः यः शर्वर्याः रात्रेः परीवृढः पतिश्चन्द्रः तस्य ज्योत्स्नाः जयन्तः अच्युतवासवप्रभृतयः अच्युतेन्द्रादयः शक्राः देवा जिनेशः जिनेशस्य स्नात्रं व्यधुः चक्रुः ॥१२२॥१२३॥युग्मम्