SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 39 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् शतैरिति शतैत्रिभिर्नाकसदां परावृतः, प्रभाभृतामाऽऽरणकाच्युतप्रभुः / स सर्वतोभद्रविमानमाश्रितः, समागमत् स्वर्णगिरौ मुदाऽञ्चितः // 117 // सः प्रसिद्धः आरणकाच्युतकल्पयोः प्रभुरच्युतेन्द्रः सर्वतोभद्रं तदाख्यं विमानमाश्रितः प्रभाभृतां तेजस्विनां नाकसदां देवानां त्रिभिः शतैः परावृतः समन्वितः मुदाञ्चितः मुदितः सन् स्वर्णगिरौ समागमत् // 117 // अन्ये इति अन्ये विंशतिरत्र मङक्षु भुवनाधीशाः समायासिषु त्रिंशत् परमधिभारकलितास्ते व्यन्तराधीश्वराः / सूर्याचन्द्रमसौ द्विरुक्तमहसौ ज्योतिष्कनाथौ मुदे त्येवं संमिलिताश्च ते किल चतुःषष्टिः सुराधीश्वरा // 118 // अन्ये उक्तेभ्य इतरे विंशतिः तत्सङ्ख्याका भुवनाधीशाः भुवनपतीन्द्राः अत्र सुमेरौ मङ्खक्षु शीघ्रं समायासिषुः समागतवन्तः तथा ते प्रसिद्धाः परमाणामुत्कृष्टानां ऋद्धीनां भारैरतिशयैः कलिताः समन्विताः द्वात्रिंषद् व्यन्तराधीश्वराः तथा ज्योतिप्काणां तदाख्यदेवानां नाथावधीश्वरौ द्विरुक्तमहसौ द्विगुणिततेजस्को सन्तौ सूर्याचन्द्रमसौ च मुदा समागतवन्तः इत्येवमुक्तप्रकारेण सुराधीश्वराः चतुःषष्टिः किल निश्चयेन सम्मिलिताः मेरावेकत्रिताः // 118 // ___ अथेति अथाच्युतेन्द्रस्य निदेशमात्रतः, सुरा विचक्रुश्च निदेशकारिणः / सहस्रमष्टोत्तरमष्टधा तदा करीरकाणां रजतादिवस्तुभिः // 119 // अथ सकलेन्द्रागमनानन्तरम् अच्युतेन्द्रस्य निदेशमात्रत आज्ञां प्राप्य निदेशकारिणः आभियोगिकाः सुराः तदा अष्टधा अष्टप्रकारैः रजतादिवस्तुभिः स्वर्णादिवस्तुभिः करीरकाणाम् शान्तिकलशानामप्टोत्तरं सहस्रं प्रत्येकमष्टोत्तरसहस्रकलशान् विचक्रुः // 119 // क्षीरेति क्षीराम्भोनिधिपुष्कराम्बुधिभवाः पद्महदाद् भारतक्षेत्ररावतवर्षतीर्थनिवहात् पाथोजपाथोमृदः / सिद्धार्थाश्च महौषधीश्च सहसा क्षुद्राद्धिमाद्रेस्तथा ते स्नात्राय सुमेरुकाननचयात् पुष्पाणि भक्त्याऽऽनयन् // 120 // ते आभियोगिका देवाः क्षीराम्भोनिधेः क्षीरसमुद्रात्पुष्कराम्बुधेश्च पुष्करवरसमुद्राच्च तथा पग्रहदात् भारतक्षेत्रस्य ऐरावतवर्षस्य च तीर्थनिवहात् तीर्थसमूहात् पाथोजानि कमलानि पाथांसि
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy