________________ 38 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / श्रीति श्रीवत्साख्यविमानगः सुरगिरौ माहेन्द्रभर्ताऽऽययौ, लक्षैरष्टभिरावृतोऽथ विलसद्वैमानिकानां जवात् / नन्द्यावर्तविमानगोऽप्युपजिनं ब्रह्माधिपोऽथागमत् , स्वानन्देन विमानिनामुपजिनं लक्षैश्चतुर्भिः समम् // 113 // अथानन्तरम् , माहेन्द्रकल्पस्य भर्ती पतिरिन्द्रः श्रीवत्साख्यविमानगः विलसतां शोभमानानां वैमानिकानाम् विमानस्थानामष्टभिः लक्षैरावृतः सन् सुरगिरौ मेरावुपजिनं जिनसमीपमाययौ / अथ तथा नन्द्यावर्तविमानगः ब्रह्माख्योऽधिपोऽपीन्द्रोऽपि स्वानन्देनात्यानन्दपूर्वकम् विमानिनां चतुभिर्लक्षैः सममुपजिनमागमदाययौ // 113 // लक्षेति-- लक्षार्धेन विमानिनां सममरं श्रीलान्तकाधीश्वरः, श्रित्वा कामगवं विमानमसमं स्वर्णाद्रिमेवागमत् / विंशत्या द्विगुणीकृतैर्दिविषदां युक्तः सहस्रः श्रितो, . यानं प्रीतिगमं स सप्तमदिवाधीशः सुरेन्द्रोऽपि च // 114 // श्रीलान्तकाधीश्वरः कामगवं तदाख्यमसममनुपमं विमानं श्रित्वा अधिरुह्य विमानिनां वैमानिकानां लक्षार्धेन पञ्चाशत्सहस्रैः समं सह अरं शीघ्रमेव स्वर्णाद्रिमगमत् , तथा स प्रसिद्धः सप्तमदिवाधीशः सुरेन्द्रोऽपि च प्रीतिगमं तदाख्यं यानं विमानं श्रितः दिविषदां देवानां विंशत्या द्विगुणीकृतैः चत्वारिंशत्सहस्रैः युक्तः, अगमत् // 114 / विमेतिविमानिनां षड्भिरथो सहस्रकैः, समं सहस्रारसुपर्वनायकः / विमानमास्थाय मनोरमं स्यात् , समाययौ स्वर्णमहीधरे मुदा // 115 // अथानन्तरम् , सहस्रारस्य तदाख्यकल्पस्य सुपर्वणां देवानां नायक इन्द्रः मनोरमं तदाख्य विमानमास्थायाधिरुह्य विमानिनां षभिः सहस्रकैः समं मुदा सहर्षम् स्वर्णमहीधरे मेरौ समाययौ // 115 // अथेति-- अथाऽऽनतप्राणतकल्पनायकः, शतैश्चतुर्भिः सहितो विमानिनाम् / श्रितो यथार्थ विमलं विमानकं, सुमेरुशैलं रभसासमासदत् // 116 // अथानन्तरम् आनतप्राणतकल्पनायक इन्द्रः यथार्थम् सार्थकं विमलं तदाख्यं विमानक विमानं श्रितः विमानिनाम् चतुर्भिः शतैः सहितः रभसा वेगात्सुमेरुशैलं समासदत् // 116 /