________________ 37 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् इन्द्रः, जगत्रये सर्वोऽपि जन: स्वशक्तिमानेन जिनस्य यथाशक्ति पूजनं तनोति करोतीति स्वचित्तेन विचिन्त्य शक्त्या स्वरूपविकरणशक्त्या रूपपञ्चकम् स्वशरीरपञ्चकं चकार, किलेत्यैतिये // 107-108 / / ॥युग्मम्॥ रूपपञ्चकविकरणानन्तरं शक्रः किं कृतवानित्याह सौरेति सौरभ्योत्कटपाणिसंपुटगतं चक्रेऽभ्यनुज्ञाग्रहा--- देकेन प्रभुमातपत्रमधृत स्वाराट् तथैकेन च / द्वाभ्यामेव च चामरे पत्रिमहो ! अन्येन धृत्वा ततः, स्वर्णाद्रावतिपाण्डुकम्बलशिलापीठं समासेदिवान् // 209 // स्वाराडिन्द्रः अभ्यनुज्ञाग्रहाज्जिनानुज्ञामागृह्य एकेन रूपेण प्रभुं जिनं सौर येणामोदेनोत्कटे अत्युत्कटसुरभिणि पाणिसम्पुटे गतं स्थितं चक्रे तथा एकेनान्येन रूपेण च आतपत्रं छत्रमधृत, द्वाभ्यां रूपाभ्यां च चामरे चामरद्वयमधृत, अहो इत्याश्चयें, ततोऽन्येन पञ्चमेन रूपेण पविं वनं धृत्वा स्वर्णाद्रौ मेरौ अतिपाण्डुकमलशिलापीठं अतिपाण्डुकमलाख्यमासनं समासेदिवान् प्राप्तः॥१०९॥ निजेति निजाङ्कपर्यङ्कविराजिनं जिनं, वितत्य सौधर्मपतिः प्रमोदवान् / स्वदारपूर्वाभिमुखः स्वगौरव-प्रदर्शयंस्तत्र निषेदिवानयम् // 110 // प्रमोदवान् मुदितोऽयं सौधर्मपतिः जिनं निजस्याङ्कः उत्सङ्ग एव पर्यङ्कः तत्र विराजिनं वितत्य कृत्वा स्वाङ्के कृत्वेत्यर्थः, स्वदारः स्वाभार्या या पूर्वादिक, इन्द्रस्य पूर्वदिक्पतित्वादिति भावः / तदभिमुखः सन् स्वगौरवं सर्वाधिपो जिनो मदके स्थित इत्यवं स्वमहत्त्वं प्रदर्शयन् तत्र मेरौ शिलापीठं निषेदिवानुपाविशत् // 110 // द्वितीयकल्पाधिपतिस्त्रिशूलभृ-च्चतुर्गुणैः सप्तभिरावृतोऽभितः / विमानलक्षेटेषवाहनस्तदा, समाययौ पुष्पकयानमास्थितः // 111 // तदा तस्मिन् काले द्वितीयस्य कल्पस्य अधिपतिरीशः त्रिशूलभृत् वृषवाहनः ईशानेन्द्रः पुष्पकारल्यं यानं विमानमास्थितः चतुर्गणैः सप्तभिः अष्टाविंशतिभिर्विमाननां लक्षैः अष्टविंशतिलक्षविमानैर्वृतः समन्वितः सन् समाययौ // 111 // विमानेतिविमानलझे रविसंमितैर्वतः, सनत्कुमाराभिधकल्पवासवः / सुवर्णशैले सुमनोविमानगः, समागमत् तत्र पवित्रिताशयः // 112 // ___ पवित्रिताशयः निर्मलाशयः सनत्कुमाराभिधस्य कल्पस्य वासवः इन्द्रः सुमनोविमानगः सुमनोनामविमानस्थः रविसंमितैः द्वादशभिः विमानलक्षैर्वृतः सन् तत्र सुवर्णशैले मेरौ समागमत् / / 112 //