________________ 36 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः।। घण्टेति घण्टावादनपीठकम्पनमुखैश्विजिनेशो जनिं, प्रज्ञातावधिना विबुध्य मुदितः सौधर्मभर्ताऽथ सः। नाय्यालोकमपास्य संभ्रमवशादुत्थाय सिंहासनात् , सप्ताष्टानि पदान्यभीत्य विदुरस्तुष्टाव तुष्टः प्रभुम् // 105 // अथाऽनन्तरम् स प्रसिद्धः विदुरः ज्ञानी सौधर्मभर्ता सौधर्मेन्द्रः घण्टाया वादनं पीठस्यासनस्य कम्पनं च मुखं प्रधानं येषां तादृशैः चिहनैर्लिङ्गैः प्रज्ञातेन प्रयुक्तेनावधिनाऽवधिज्ञानेन जिनेश: जिनेशस्य जनि जन्म विबुध्य ज्ञात्वा मुदितः सन् नाय्यस्यालोकमालोकनमपास्य त्यक्त्वा सम्भ्रमवशात्वरातः सिंहासनादुत्थाय सप्त वा अष्टौ वा तानि पदानि अभीत्य सन्मुखं समेत्य तुष्टः सन् प्रभुं जिनेशं तुष्टाव // 105 // विमानमथ पालकं समधिरुह्य शक्रोऽभितचतुष्कगुणिताऽष्टकामविमानलक्षवृतः / अतीत्य तरसा बहून् विविधवारिधिद्वीपकानवापपरमेशितुझंगिति सूतिकामन्दिरम् // 106 // अथानन्तरम् शक्र इन्द्रः पालकं तदारव्यं विमानमधिरुह्य चतुष्केण चतुःसङ्ख्यया गुणितो योऽष्टकः अष्टसङ्ख्या,द्वात्रिंशत्सङ्खयेत्यर्थः स प्रमा प्रमाणं येषां तैस्तत्सङ्ख्यकैः विमानानां लक्षः द्वात्रिंशल्लक्षविमानैः वृतः सन् तरसा वेगेन बहूननेकान् विविधान् वारिधीन् द्वीपकांश्चातीत्यातिक्रम्य झगिति परमेशितुः जिनस्य सूतिकामन्दिरमरिष्टगृहमवाप / / 106 // प्रदेति प्रदक्षिणपुरःसरं जिनपतिं जनन्या समं, विनम्य परभक्तितः प्रतिकृति विमुच्य प्रभोः / समं परिकरेण तां जिनपतेः पुनर्मातरं, निमीलितविलोचनां प्रविरचय्य निद्राभरैः // 107 // जिनस्य सर्वोऽपि तनोति पूजनं, स्वशक्तिमानेन जनो जगत्त्रये / इति स्वचित्तेन विचिन्त्य वासव-श्चकार शक्त्या किल रूपपञ्चकम् // 108 // युग्मम् ___ प्रदक्षिणपुरःसरं प्रदक्षिणपूर्वकम् जनन्या समं सह जिनपतिं परभक्तितोऽतिभक्तितः विनम्य प्रभोः प्रतिकृति बिम्बं विमुच्य जिनस्थाने तद्विम्बं मुक्त्वा पुनस्तथा परिकरेण परिजनेन समंजिनपतेः तामचिराख्यां मातरम् निद्राभरैः निमीलितविलोचनां मुद्रितनेत्रां विरचय्य कृत्वा वासव