________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ता दिक्कन्याः तज्जिनजिनजननीरूपं द्वितयं द्वयं उत्तरचतुःशाले नीत्वा विवृष्य घर्षणं कृत्वा, अरणिं निर्मथ्येत्यर्थः / अरणेः तदाख्यकाष्ठशेषात् पूर्व पातिते पश्चाद्दीपिते ज्वालिते वह्नौ अभियोगिभिः दासकल्पैः गीर्वाणैर्देवैराभियोगिकसुरैः लघुहिमक्षोणीधराक्षुल्लहिमाद्रेहतैराहतैरानीतैः सुरभिभिः सुपरिमलैः दिव्यैः मनुष्यदुर्लभैः चन्दनैः श्रीखण्डकाष्ठैः हुतैरग्निसमर्पितैः तद्भस्मभिरिति यावत् , विधिवद्यथाविधि रक्षार्थ पोडलिकां विधाय द्वयोः जिनजिनजनन्योः पाणौ बबन्धुः जातकस्य प्रसूतेश्च पाणौ रक्षापोट्टलिकां बघ्नन्तीत्याचारः // 101 / / हरिदिति हरित्कुमारीभिरवन्धि रक्षिका, जिनस्य मातुश्च कराम्बुजेऽपि यत् / तदत्र जीतं भजते निदानतां, न तस्य रक्षाऽखिललोकरक्षितुः // 102 // ननु किमिति सर्वातिशयवतो जिनस्यापि रक्षापोट्टलिकाबन्धनमिति चेत्तत्राह-हरितां दिशांकुमारीभिः यज्जिनस्य मातुश्च जिनमातुश्चापि कराम्बुजे रक्षिका रक्षार्थपोट्टलिका अबन्धि, तदत्र विषये जीतं कल्पः तथाविधलोकाचार एव निदानतां हेतुताम् , भजते, यतः अखिललोकानां रक्षितुः रक्षकस्य तस्य जिनस्य रक्षा परनिहिता रक्षा न, किन्तु स्वतः तस्य रक्षा, अन्येषां सर्वे. षामेव तद्रक्ष्यत्वाद् , रक्ष्यस्य रक्षकरक्षा न युज्यते इति भावः // 102 // घरेति धराधरायर्भव तीर्थनायके-त्युदीर्य कर्णद्वितयीतटे प्रभोः / ___ इमाः स्वयं प्रस्तरगोलकद्वयं, विशङ्कमास्फालितवत्य उद्धतम् // 103 // इमाः दिक्कन्याः तीर्थनायक ! धराधरस्य पर्वतस्यायुरिवायुर्यस्य तादृशः चिरजीवी भव ! इत्याशीर्वचनमुदीर्योक्त्वा प्रभोर्जिनस्य कर्ण द्वितय्यास्तटे प्रान्ते स्वयमेव प्रस्तरस्य गोलकयोः द्वयम् विशङ्कम् आघातादिशङ्कारहितम् उद्तम् दृढं च यथास्या तथा आस्फलितवत्यः आघातमकार्षुः, तथाऽऽचारादिति भावः // 103 // अरिष्टेति अरिष्टमन्तः स्म नयन्ति ता जिनं, समं जनन्या जनितप्रमोदया / __ अथैकपल्यङ्कगतौ विधाय तौ, गुणोत्करोगानपराः स्थितिं श्रिताः // 104 // अथोपचारानन्तरम् ता दिक्कन्यः जिनं जनितप्रमोदया हृष्टया जनन्या मात्रा समं सहैव अरिष्टम् प्रसूतिगृहस्यान्तः नयन्ति स्म, तथा तौ जिनजिनजनन्यौ एकपल्यङ्के गतौ स्थितौ विधाय, एकस्मिन् पल्यङ्क एव स्थापयित्वा गुणोत्कराणां गुणगणानामुद्गाने पराः तत्पराः सत्यर स्थितिं श्रिताः स्थिता इत्यर्थः // 104 / /