________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / खातोपरि रवेः सूर्यस्य हयानामश्वानां स्पर्धायां विवृद्ध आदर आग्रहो यस्य तं तादृशम् रविहयेभ्योऽधिकहरितम् उच्चकैरुच्चं दूर्वापीठम् दुर्वाङ्कुरास्तरणमरोपयन् स्थापयामासुः // 98 // याम्यामिति याम्यां प्राच्यामुदीच्यामपि ककुभि च ता मूलसौधादकार्युः सम्यगम्भानिकेतत्रितयमपि चतुःशालसिंहासनभ्राट् / अभ्यङ्गोद्वर्तने ता यमककुभि चतुःशालमध्ये निषाद्य सत्तैलोद्वर्तनाभ्यां जिनजिनजननीगात्रयोस्तन्वते स्म // 19 // ता दिक्कुमायः मूलसौधापेक्षया याम्यां दक्षिणस्याम् प्राच्या पूर्वस्यामुदीच्यामुत्तरस्यामपि च ककुभि दिशि चतुःशालेन सिंहासनेन च भ्राजते इति तादृशम् रम्भाणां कदलीनिर्मितानां निकेतानां गृहाणां त्रितयमपि सम्यग् रचनाचार अकार्षः / तथा ता दिक्कुमार्यः यमककुभि दक्षिणदिक्स्थिते चतुःशालमध्ये निषाद्य जिनं तज्जननों चोपवेशयित्वा सद्भयां प्रशस्ताभ्याम् तलमुद्वर्तोऽभ्यङ्गस्ताभ्यां जिनजिनजननीगात्रयोः अभ्यङ्गोद्वर्त्तने तन्वते कुर्वन्ति स्म // 99 // चतुरिति चतुःशाले प्राच्ये मणिकनकसिंहासनजुषौ, विधाप्य स्वैरं तावपि सवनचाचिक्यसुभगौ / ततो दिव्यैर्वस्त्रैय॑तनिषत ता मण्डिततनू , न तादृश्यः क्वापि क्रममपनयन्तीह यदि वा // 10 // ता दिक्कुमार्यः प्राध्ये पूर्वदिक्स्थे चतुःशाले सवनेन स्नानेन चाचिंक्येनानुलेपनेन च सुभगौ शोभासम्पन्नौ तौ जिनजिनजनन्यौ द्वावपि स्वैरं स्वेच्छानुसारेण मणीनां कनकानां च यत्सिंहासनं तज्जुषौ तदुपरि स्थतौ विधाप्य कृत्वा मणिकनकसिंहासन उपवेश्येत्यर्थः ततो दिव्यैः वस्त्रैः कृत्वा मण्डिततनू भूषितशरीरौ व्यतनिषताकारिषत, ननु किमिति क्रमश एतत् सर्व कृत्यमनुष्ठितमित्यत आह-यदि वा यतः इह ईदृशेऽवसरे तादृश्यः दिक्कुमार्यः क्रमपरिपाटीम् पौपियं वा नापनयन्ति त्यजन्ति // 100 // नीत्वेति नीत्वा ता द्वितयं तदुत्तरचतुःशाले विघृष्याऽरणेवह्नौ पातितदीपिते लघुहिमक्षोणीधरादाहृतैः / गीर्वाणैरभियोगिभिः सुरभिभिर्दिव्यैर्हतैश्चन्दनै, रक्षापोट्टलिकां विधाय विधिवद् पाणौ बबन्धुर्द्वयोः // 101 // . .